________________
विशेषा
॥४१५॥
समन्यापESमरापुरकरारा
तानि निश्चितानि । किमिति ?, आह- अव्यामोहादिनिमित्तम् । ऐकाथिकैर्हि पर्यायनामभितैिरन्यान्यस्थानेष्वन्यान्यनामश्रवणतः शिष्यो न मुह्यति । आदिशब्दाद् नानादेशजविनेयानां सुखेनैवार्थप्रतिपत्तिर्भवतीत्यादि वाच्यमिति ॥ ८७१ ॥
कानि पुनस्तानि पर्यायनामानि ?, इत्याह
आवस्सयं अबस्सकरणिज्जं धुव निग्गहो विसोही य।अज्झयणछक्क वग्गो नाओ आराहणा मग्गो॥ ८७२॥ एतानि दश पर्यायनामानि ॥ ८७२ ॥ तत्राऽऽवश्यकमिति कः शब्दार्थः १, इत्याह
सेमणेण सावएण य अवस्सकायव्वयं हवइ जम्हा । अंतोअहो-निसिरस उ तम्हा आवरसयं नाम।।८७॥ श्रमणादिभिरहोरात्रमध्येऽवश्यं करणादावश्यकमितीह तात्पर्यमिति ॥ ८७३ ॥ एतदेव सविशेषमाहजदवसं कायव्वं तेणावस्सयमिदं गुणाणं वा । आवस्सयमाहारो आ मजाया-भिविहिवाई ॥ ८७४ ॥
आ वस्सं वा जीवं करइ जं नाण-दसण-गुणाणं । संनिज्झ-भावण-च्छायणेहिं वावासयं गुणओ॥८७५॥
यद् यस्मादवश्यं कर्तव्यं, तेन तस्मादावश्यकमिदमिति । एतत् प्राक्तनगाथायाः पर्यवसितार्थकथनमेव । अथवा, आङ् मर्यादा-ऽभिविधिवाची, आ- मर्यादया, अभिविधिना वा गुणानामपाश्रय आधार इदमित्यापाश्रयः- गुणाधार इत्यर्थः । नन्वाधारवाचक आपाश्रयशब्दः पुंलिङ्गे वर्तते, तत् कथमापाश्रयमिति नपुंसकम् ? इति चेत् । न, प्राकृतशैलीवशतोऽदोषादिति । अथवा, ज्ञानादिगुणानामा समन्ताद् वश्यमात्मानं करोतीत्यावश्यकम् , यथा-अन्तं करोतीत्यन्तकः। सांनिध्य-भावना-ऽऽच्छादनर्वाऽऽवासकं गुणत इत्यावासकमुच्यते । इदमुक्तं भवति- 'वस निवासे' इति गुणशून्यमात्मानं गुणैः, आ-समन्ताद् वासयति गुणसांनिध्यमात्मनः करोतीत्या
१ आवश्यकमवश्यकरणीयं भुवं निग्रहो विशुद्धिव । अध्ययनषट्कं वर्गो न्याय माराधना मार्गः ॥ ८७२ ॥ २ श्रमणेण भावकण चावश्यकर्तव्यकं भवति यस्मात् । अन्तरहनिशं तु तस्मादावश्यकं नाम ॥ ५॥ ३ पदवश्य कर्तव्यं तेनावश्यकमिदं गुणानां वा । आपाश्रय आधार मा मर्यादा-ऽभिविधिवाची ॥४॥ भा वश्यं वा जीवं करोति यग्ज्ञान-दर्शन-गुणानाम् । सांनिध्य-भावना-इच्छादनैर्वाऽऽवासकं गुणतः ॥ ८७५ ॥
RaeroSS
Fa४१६॥
Jain Education International
For Personal
e
Use Only
PRAww.jainelbrary.org