SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥५९५॥ STORISTS हेतोरनुयोगो द्रव्यानुयोगः, द्रव्याणां वा पर्यायैः सह, द्रव्यैर्वा करणभूतैरनुरूपो योगो द्रव्यानुयोग इति । यो वाऽनुपयुक्तः कथयतिअनुपयुक्तोऽनुयोगं करोति स द्रव्यानुयोगः।। _ एवं क्षेत्रादीनामपि- क्षेत्र-काल-वचन-भावेष्वपि यथासंभवामित्थमेवायोज्यत इत्यर्थः, तद्यथा- क्षेत्रस्य, क्षेत्रेण, क्षेत्रे क्षेत्राणां क्षेत्रः, क्षेत्रेष्वनुयोगः क्षेत्रानुयोगः। तथा, क्षेत्रस्य, क्षेत्राणां वा हेतोरनुयोगः क्षेत्रानुयोगः- क्षेत्रानुज्ञापनाय देवेन्द्र-चक्रवादीनामनुयोगो व्याख्यानं यत् क्रियत इत्यर्थः। तथा, क्षेत्रस्य क्षेत्राणां वा, क्षेत्रेण क्षेत्रैर्वा करणभूतः, पर्यायेण पर्यायैर्वा सहानुरूपोऽनुकूलो योगः क्षेत्रानुयोगः। एवं काल-वचन-भाव-विषयेऽप्येकवचन-बहुवचनाभ्यां सुधिया यथासंभवं वाच्यम् , नवरं कालाधभिलापः कार्य इति ॥१३९१॥ १३९२॥ 'द्रव्यस्यानुयोगो व्याख्यानं द्रव्यानुयोगः' इत्यादावभिहितम् । तत्र कतिभेदं तद् द्रव्यम् , किंखरूपश्च तस्यानुयोगः ?, इत्याशङ्कयाह देव्वस्स उ अणुओगो जीवदव्वस्स वा अजीवदव्वस्स । एक्केक्कम्मि वि भेया हवंति दवाइया चउरो॥१३९३॥ द्रव्यानुयोगो य उक्तः स द्रव्यभेदाद् द्विधा भवति- जीवद्रव्यस्य, अजीवद्रव्यस्य च । एकैकस्मिञ्जीवद्रव्ये, अनिद्रव्ये च । द्रव्यादयश्चत्वारो भेदा भवन्ति- जीवद्रव्ये, अजीवद्रव्ये च प्रत्येकं द्रव्यतः, क्षेत्रतः, कालतः, भावतश्चतुर्धाऽनुयोगः प्रवर्तत इत्यर्थः॥१३९३॥ एतदेवाह देव्वेणेगं दव्वं संखाईयप्पएसओगाढं । कालेऽणाइ अनिहणो भावे नाणाइयाणंता ॥ १३९४ ॥ एमेव अजीवस्स वि परमाणू दव्व एगदव्वं तु। खेत्ते एगपएसे ओगाढो सो भवे नियमा ॥ १३९५ ॥ समयाइठिइ असंखा उसाप्पणीओ वंति कालम्मि । वण्णाइभावणता एवं दुपएसमाई वि॥१३९६॥ १ न्यस्य त्वनुयोगो जीवद्रव्यस्य वाऽजीवद्रव्यस्य । एकैकस्मिन्नपि भेदा भवन्ति द्रव्यादिकाश्चत्वारः ॥ १३९३ ॥ २ द्रव्येणैकं द्रव्यं संख्यातीतप्रदेशावगाढम् । कालेऽनादिरनिधनो भावे ज्ञानादयोऽनन्ताः ॥ १३९४ ॥ एवमेव जीवस्यापि परमाणुईच्य एकद्रव्यं तु । क्षेत्र एकप्रदेशेऽवगादः स भवेद् नियमात् ॥ १३९५ ॥ समयादिस्थितिरसंण्या उत्सर्पिण्यो भवन्ति काले । वर्णादिभावा अनन्ता एवं द्विपदेशादयोऽपि ॥ १३९६ ॥ ॥५९५॥ For Pesond ere
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy