________________
विशेषा
॥५९६॥
द्रव्येण द्रव्यतो जीव एक द्रव्यम् । क्षेत्रतस्तु तज्जीवद्रव्यं संख्यातीतप्रदेशावगाढम् , एकैकस्य जीवस्यासंख्याताकाशप्रदेशावगाढत्वात् । काले कालतोऽनादिः, अनिधनश्च जीवो भवति । भावे भावतस्तु ज्ञानादयोऽनन्तास्तस्याऽगुरुलघुपर्यायाः । अजीवद्रव्यस्याप्येवमेव द्रव्यादिभ्यश्चतुर्विधोऽनुयोगः । तत्र द्रव्ये द्रव्यतः परमाणुरेकं द्रव्यम् । क्षेत्रे क्षेत्रतस्त्वेकप्रदेशावगाढ एव । कालतस्तु जघन्यतस्तस्य स्थितिरेकः समयः, मध्यमतस्तु द्यादयः समयाः, उत्कृष्टतस्त्वसंख्येया उत्सपिण्य-ऽवसर्पिण्यः । भावतः पुनर्वर्ण-गन्धादिरूपा अनन्ता पर्यायाः । एवं द्वयणुकादिस्कन्धानामपि प्रत्येकं द्रव्यादिभावेन चतुर्विधोऽनुयोगो वक्तव्यः । द्रव्यस्यानुयोग इति गतम् ॥१३९४॥ ॥१३९५ ॥ १३९६ ॥
अथ 'द्रव्याणामनुयोगः' इत्येतद् व्याचिख्यासुराह
देवाणं अणुओगो जीवा-जीवाण पज्जवा नेया। तत्थवि यमग्गणाओऽणेगा सट्ठाण-परठाणे ॥ १३९७ ॥
द्रव्याणामनुयोगो यदा चिन्त्यते तदा जीवा-ऽजीवद्रव्याणां पर्यवाः पर्याया ज्ञेया ज्ञातव्या यथा प्रज्ञापनायां प्ररूपिताः। तथाच तत्रोक्तम्- "कैइविहा णं भंते ! पजवा पन्नत्ता?। गोयमा ! दुविहा पन्नत्ता, तं जहा- जीवपज्जवा य, अजीवपज्जवा य । जीवपज्जवा | ण भंते ! कि संखेजा, असंखेज्जा, अणता ? । गोयमा ! नो संखेजा, नो असंखेजा, अणता । एवं अजीवपज्जवा वि अणंता" इत्यादि । तत्रापि द्रव्याणामप्यनुयोगपक्षे स्वस्थान-परस्थानभेदादनेका मार्गणा अन्वेषणा विचारणा ज्ञातव्याः । तत्र द्रव्यतोऽनन्तानि जीवद्रव्याणि, अनन्तान्यजीवद्रव्याणि, इत्येवं जीवा-ऽजीवद्रव्याणां द्रव्यतश्चिन्ता स्वस्थानम् , क्षेत्र काल-भावतस्तु चिन्ता परस्थानम् । तत्र क्षेत्रतो जीवा-जीवद्रव्याणि प्रत्येकं समस्तलोकावगाढानि, कालतोऽनाद्य-निधनानि, भावतस्त्वनन्तपर्यायाणि, इत्यादिमार्गणाः स्वधिया विधेया इति ॥ १३९७ ॥
__यदुक्तम्- 'द्रव्येण, द्रव्यैः, द्रव्ये, द्रव्येष्वनुयोगः' इति, तत्राह
१५. छ. ज. 'ण्यः'। २ व्याणामनुयोगो जर्जावा-उजीवानो पर्यवा ज्ञेयाः । तत्रापि च मागणा अनेकाः स्वस्थान परस्थानयोः ॥ १३९७ ॥
३ कतिविधा भगवन् ? पर्यवाः प्रज्ञप्ताः । गौतम ! द्विविधा प्रज्ञप्ताः, तद्यथा-जीवपर्यवाश्च, अजीवपर्यवाश्च । जीवपर्यवा भगवन् ! कि संख्ययाः, असंख्येयाः, अनन्ताः । गौतम ! नो संख्ययाः, नो असंख्येयाः, अनन्ताः । एवमजीवपर्यवा अध्यनन्ताः ।
५९६॥
For on Present