________________
बृहद्वचिः।
विशेषा० ॥५८३॥
बावरान
न्धु ग्रन्थितुं शक्यत एवाऽसौ गाथा तयथा 'दारविही वक्खाणविहि अणुओगो नयावही य ति। तस्माद् बुद्धिपुर्विकेयं विपर्ययरचना ॥ १३५४ ॥
कथम् ?, इत्याह
अंतम्मि उ वण्णसिउं पुव्वमणुगमस्स जं नए भणइ । तं जाणावेइ समं वच्चंति नयाणुओगो य॥१३५५॥
उपक्रमः, निक्षेपः, अनुगमः, नयाः, इत्यनुयोगद्वाराणामन्ते पूर्वं नयानुपन्यस्य यदिदानीमनुगमस्यानुयोगस्य पूर्व प्रथमं नयान् भणति, तज्ज्ञापयति भद्रबाहुस्खामी-नया-ऽनुयोगी प्रतिमूत्रं युगपदेव व्रजतः। न हि नाम नयैः शून्यः काप्यनुयोगोऽस्ति, यदि युगपद् नया-ऽनुगमौ गच्छतः, तर्खेतदुपन्यासोऽपि युगपदेवास्तु, इति चेत् । तदयुक्तम् , अशक्यत्वात् । तस्मादनुयोगद्वारेष्वनुगमस्यान्त उपन्यस्तानामपि नयानां यदिह तदादौ तद्भणनं तद् योगपद्यगमनज्ञापनार्थमिति ॥ १३५५ ॥
अथ द्वितीयप्रेर्यस्य परिहारमाह
सुत्ताणुगमावसरे गुरु-सीसाणुग्गहोवएसत्थं । वक्खाणविहिं जंपइ मूलद्दाराणहिकयं पि ॥ १३५६ ॥
चतुषु मूलानुयोगद्वारेष्वनधिकृतमपि च- तेष्वनुक्तमपि च, व्याख्यानविधि मूरिजल्पति । क ?, इत्याह- इह सूत्रानुगमावसरे- अनुयोगस्यादावित्यर्थः । किमर्थम् ?, इत्याह- गुरुश्च शिष्यश्च गुरु-शिष्यौ, तयोरनुग्रहो गुरु-शिष्यानुग्रहः, तदुपलक्षित उपदेशो गुरु-शिष्यानुग्रहोपदेशस्तदर्थम् । इदमुक्तं भवति- गुणवताऽऽचार्येण गुणवते शिष्याय समस्तगुणोपेतं सूत्रं व्याख्येयम् , इत्येवं गुरुशिष्यानुग्रहार्थं व्याख्यानविधावुपदिष्टे सुव्याख्यानं सुश्रवणं च शास्त्रं भवति, इति गुणमपेक्ष्यानुयोगद्वारासंगृहीतोऽपीह व्याख्यानविधिरुक्त इति ।। १३५६ ॥ तदेवं व्याख्यान विधेरनधिकृतत्वमभ्युपगम्योक्तम् । यदिवा, तदेवासिद्धम् , इत्येतदाहअहवा साहिकय च्चिय वक्खाणंगं ति जं तओऽणुगमे । जं जं वक्खाणंगं तं तं सव्वं जओऽणुगमो ॥१३५७॥
, दाविधिव्याख्यानविधिरनुयोगो नयविधिश्चेति । २ अन्ते तु वा न्यस्य पूर्वमनुगमस्य यद् नयान् भणति । तज्ज्ञापयति समं बजतो नयोऽनुयोगक्ष ॥ १३५५ ॥ ३ सूत्रानुगमावसरे गुरु-शिष्यानुग्रहोपदेशार्थम् । व्याख्यानविधि जल्पति मूलद्वारानधिकृतमपि ॥ १३५६ ॥ अथवा सोऽधिकृत एवं व्याख्यानाकामिति यत् ततोऽनुगमे । यद् यद् व्याख्यानाङ्गं तत् तत् सर्वं यतोऽनुगमः ॥ १३५७ ॥
॥५८३॥
For Personal and Private Use Only