________________
विशेषा-
॥५८४॥
अथवा, स व्याख्यानविधिरधिकृत एवेह द्रष्टव्यः 'सा' इति प्राकृतत्वात् स्त्रीलिङ्गनिर्देशः । कथं पुनरसाविहाधिकृतः , इत्याह- यद् यस्माद् व्याख्यानाङ्गमिति, ततस्तस्मादनुगमेऽधिक्रियत इति प्रक्रमः । यदि नाम व्याख्यानाङ्गमसी, तथापि कथमनुगमेऽन्तर्भवति , इत्याह- यद् यद् व्याख्यानाङ्ग, तत् तद् यस्मादनुगमः, तत्कारणत्वात् , व्याख्यानाहं च व्याख्यानविधिः, तस्मादनुगमेऽन्तर्भवतीति ॥ १३५७॥
व्याख्यानाङ्गत्वमेवाऽस्य भावयितुमाह
सुत्ताणुगमाईए वक्खाणविही जओ तदंगं सा । जं च सुयावसरे चिय सफलाइं गवाइनायाइं ॥१३५८॥ यतश्च सूत्रानुगमस्यादौ प्रथमं व्याख्यानविधिः 'तीर्थकर-गणधरैरुक्तः' इति शेषः, तथा चेहापि व्याख्याविधान पूर्वमुक्तम्
___ 'सुत्तं पयं पयत्यो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुत्तं ॥ १ ॥
यत्तदोनित्याभिसंबन्धात् , तस्माद् व्याख्यानाङ्गमसौ। यच्च यस्मात् श्रुतावसर एव सूत्रानुगमप्रस्ताव एव 'गोणी चंदणकथा चेडीउ सावए बहिरगोहे' इत्यादिनाऽत्रैवानन्तरं वक्ष्यमाणानि व्याख्यानविधिगतानि गवायुदाहरणानि सफलानि भवन्ति, नान्यथा । इदमुक्तं भवति-सूत्रव्याख्यानविधिविषयाण्येव हि गवायुदाहरणानि वक्ष्यन्ते, तानि च सफलानि तदा भवन्ति यदा व्याख्यानविधिरनुगमाङ्गमेव भवति । तद्धहिर्भूतत्वे तु तस्य तानि निरालम्बनान्येव स्युरिति ॥ १३५८ ॥
अत्र प्रेरकः प्राह
जैइ साणुगमंगं चिय दारविहीए तओ किमाईए । उयारेउं भन्नइ उक्कमकरणे गुणो को णु ? ॥१३५९॥
यदि स व्याख्यानविधिरनुगमानमेवेष्यते, तद्यग्रतोऽनुगमादेरवतार्याऽऽकृष्य किमिति 'उदेसे निदेसे य निग्गमे' इत्यादिवक्ष्यमाणद्वारविधेरादौ समानीय भण्यते- 'गोणी चंदनकथा' इत्यादिना किमिति द्वारविध्यादौ भणिष्यते ? इत्यर्थः । यदेव ह्यग्रे मूत्रं व्याख्यास्यते तदेव तर्हि व्याख्यानविधिः 'गोणी चंदनकथा' इत्यादिर्वक्तुमुचितः, किमिति 'उद्देसे निइसे य' इत्यादिरविधिरांगेव प्रस्तुतस्थाने निर्दिष्टः १, इति भावः । को खेवमुत्क्रमकरणे गुणलाभः १-न कश्चिदित्यर्थः ॥ १३५९ ॥
एत्रानुगमादी व्याख्यानविधियंतस्तदनं सः । यच श्रुतावसर एव सफलानि गवादिज्ञातानि ॥ १३५८ ॥ १ गाथा १००२ । ३ गाथा १४३५।। ४ यदि सोऽनुगमानमेव द्वारविधौ ततः किमादौ । अवतार्य भण्यते उक्कमकरणे गुणः को नु॥ १३५९ ॥ ५ गाथा ९७३ ।
॥५८४॥
POL
Jan Education internet
For Personal and Private Use Only