SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥५७१॥ नन्तानुबन्धिनश्चतुरोऽपि क्रोधादीन् युगपत् क्षपयति, तदनन्तभागं च मिथ्यात्दे मक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् क्षपयति तथाहि- अतिसंभृतो दावानलः खवर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि निर्दहति, एवमसावपि क्षपकस्तीब्रशुभपरिणामत्वात् बृहदत्तिः । सावशेषमन्यत्र प्रक्षिप्य क्षपयति । ततस्तथैव सम्यग्मिथ्यात्वम् , ततः सम्यक्त्वम् । इह च यदि पद्धायुः प्रतिपद्यते, अनन्तानुवन्धिक्षये । च व्युपरमते, ततः पश्चात् कदाचिद् मिथ्यात्वोदये पुनरप्यनन्तानुबन्धिचतुष्टयं बधाति, तस्याऽवन्ध्यतत्कारणत्वात् । क्षीणमिथ्यात्वस्तु तद् न बध्नाति , कारणाभावात् । तश्विानन्तानुबन्धिचतुष्टये क्षीणेऽअतिपतितशुभपरिणाम एव यदि म्रियते तदा सुरलोकमेव व्रजति । एवं दर्शनसप्तकक्षयेऽपि कृते वाच्यम् । प्रतिपतितपरिणामस्तु यदि पश्चाद् म्रियते, तदा नानामतित्वाद् नानागतिको भवति । यदि च बद्धायुरिमां श्रेणिं प्रतिपद्यते तदा दर्शनसप्तकं समस्तमपि क्षपयित्वा नियमाद् व्युपरमत एव, ततो यत्रायुर्बद्धं तत्रोत्पद्यते । यः पुनरबदायुः प्रतिपद्यते स निःशेषामप्येतां श्रेणी समापयत्येव । तस्याश्चार्य क्रमः- सम्यक्त्वस्य क्षपितशेषे स्वल्पेऽवतिष्ठमान एवापत्याख्यान-प्रत्याख्यानावरणकषायाष्टकं समकमेव क्षपयितुमारभते । एतैश्चार्धक्षपितैरेवान्याः षोडश कर्मप्रकृतीः क्षपयति, तद्यथा- नरकानुपूर्वी, तिर्यगानुपूर्वी, नरकगति-तिर्यग्गतिलक्षणं गतिद्वयम् , पञ्चेन्द्रियजातिवर्जाश्चतस्रश्चाद्या जातयः- एक-द्वि-त्रि-चतुरिन्द्रियजातय इत्यर्थः, आतपोद्योत-स्थावर-साधारण-सूक्ष्माणि । निद्रानिद्रा-प्रचलाप्रचला-स्त्यानर्षिलक्षणं महानिद्रात्रयम् । एतत्क्षपणोत्तरकालं कषायाष्टकस्य यच्छेषं तत् क्षपयति । ततो नपुंसकवेदम् , ततः स्त्रीवेदम्, ततो हास्यादिषटूम् , ततः पुरुषवेदं खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति । तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति । पुरुषे प्रतिपत्तर्ययं क्रमो बोद्धव्यः, नपुंसकादौ तु प्रतिपत्तयुदितवेदस्य पश्चात् क्षपणम् , शेषानुदितवेदद्वयस्य तु मध्येऽधमवेदस्य प्रथमम् , इतरस्य तु तदनन्तरं क्षयः प्रागुक्तोपशमवद् वाच्यः । ततः क्रोधादीचतुरः संज्वलनान् प्रत्येकमन्तर्मुहूर्तकालेन क्षपयति । क्षपणं चैषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवद् वाच्यम् । क्रोधसत्कं च तृतीयखण्ड माने प्रक्षिपति, मानसत्कं मायायाम् , तत्सत्कं तु लोभे । क्षपणकालश्च प्रत्येकं सर्वत्रान्तर्मुहूर्तमानो मन्तव्यः । श्रेणिरप्येषा बृहत्तरान्तमुहूर्तमानच । सर्वाप्येकस्मिन्नपि बृहदन्तर्मुहूर्ते लघुतरान्तर्मुहूर्तानामसंख्येयानां प्राप्ते, लोभतृतीयखण्डं तु संख्ययानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति । एषामपि संख्याततमं चरमखण्डमसंख्येयानि खण्डानि करोति । तान्यपि समये समय एकैकं क्षपयति । इह च क्षीणदर्शनसप्तको निवृत्तिवादर उच्यते । तत ऊर्ध्वं त्वनिवृत्तिबादरो यावत् संख्याततमं लोभखण्डम् । तत ऊर्ध्वमसंख्येयानि तत्खण्डानि क्षपयन् सूक्ष्मसंपरायोऽभिधीयते, यावच्चरमलोभांशक्षयः । तत ऊर्ध्व क्षीणमोहयथाख्यातचारित्री ॥५७१॥ भवति । स्थापना चेहोक्तानुसारेण विधेया ॥ इति नियुक्तिगाथार्थः ॥ १३१३ ॥ मा Jan Education Internat For Personal and Private Use Only www.jaineitrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy