SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥५६९॥ भाष्यम् देवदूमियंजणदुमो छारच्छन्नोऽगणि व्व पच्चयओ । दावेइ जह सरूवं तह स कसायोदए भुजो॥१३०७॥ यथा दवाग्निदग्धोऽञ्जनद्रुमः पुनरपि प्रत्ययत उदकाऽऽसेचनादिकारणसंसर्गादकूर-प्रवाल-पत्र-पुष्पादिरूपं निजस्वरूपं दर्शयति, यथा वा भस्मावच्छन्नोऽग्निः प्रत्ययतस्तृणादीन्धनकारणसाहाय्यात् पुनरपि दाहपाकादिकर्तृत्वलक्षणं निजस्वरूपं प्रकटयति, यथा वा मिथ्यापनीतामयोऽपथ्यादिप्रत्ययतः पुनरपि निजखभावमाविष्करोति, तथा सोऽप्युपशान्तकषायो जीवः स्वशरीरोपध्यादिमूर्छादिप्रत्ययतः पुनरपि कषायोदये पूर्वखरूपं दर्शयति, यतोऽयमुपशान्तमोहः 'अण्णयरसेढिवज' इत्यादिवचनात् सैद्धान्तिकमतेन तस्मिनेव भवे क्षपकश्रेणिं न करोति, तामन्तरेण च न सिध्यनि, उत्कृष्टतश्च देशोनार्धपुद्गलपरावर्तरूपं संसारं पर्यटति । तस्माद् विहितोपशमश्रेणिरन्तर्मुहूर्ताद् नियमेन प्रतिपततीति ॥ १३०७॥ एतदेवाइ तैम्मि भवे निव्वाणं न लभइ उक्कोसओ व संसारं । पोग्गलपरियट्टद्धं देसोणं कोइ हिण्डेजा ॥१३०८॥ गतार्था ॥ इति गाथाद्वयार्थः ॥ १३०८ ॥ अहो ! महदाश्चर्यम् , यदेकादर्श मोक्षप्रासादसोपानमारुह्यापि हतजीवः पुनरपि परिभ्रष्ट एतावद् दुःखमनुभवति, इति विस्मितात्मा गुरुरुपदेशमाह जइ उवसंतकसाओ लहइ अणतं पुणो वि पडिवायं । न हु भे वीससियव्वं थेवे वि कसायसेसम्मिा॥१३०९॥ अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । न हु भे वीससियव्वं थेवं पि हु तं बहु होइ ॥१३१०॥ न हु भे त्ति' नैव भवद्भिर्विश्वसितव्यं स्तोकेऽपि कषायशेषे, किन्तु मिथ्यादुष्कृतादिभिर्झटित्येव ततो निवर्तनीयमिति । अणं ऋणम् । शेष सुगमम् ॥ इति नियुक्तिगाथाद्वयम् ॥ १३०९॥ १३१०।। १ दवदग्धाअनडुमो भस्वच्छन्नोऽग्निरिव प्रत्ययतः । दर्शयति यथा स्वरूपं तथा स कषायोदये भूयः ॥ १३०७॥ २गाथा १२२३॥ ३ तस्मिन् भवे निर्वाणं न लभत उत्कृष्टतो चा संसारम् । पुद्गलपरिवर्ताध देशोनं कश्चिद् हिण्डेत् ॥ १३०८ ॥ यद्यपशान्तकषायो लभतेऽनन्तं पुनरपि प्रतिपातम् । न हि भवनिर्विश्वसितम्यं लोकेऽपि कषायशेषे ॥ १.१॥ कणस्तौक प्रणस्तौकमनिस्तौक कषायस्तोकं च । न हि भवद्भिर्विश्वसितव्यं स्तोकमपि हि तद् बहु भवति ॥ १३॥ ॥५६९॥
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy