________________
P
उपशमकक्ष्मसंपरायस्याधिकारे तत्समभाग इति कृत्वा तत्क्षपकोऽप्ययमेव निर्दिष्टः । यथोपशमश्रेण्या नवमगुणस्थानकादुपविशेषारितनभागे सूक्ष्मसंपरायो भवति, तथा क्षपकश्रेण्यामपि, इति सामानभागत्वादुपशमकाधिकारे लाघवार्थ क्षपकोऽपि निर्दिष्ट इत्यर्थः । उपश
मकसूक्ष्मसंपरायश्चैतद्गुणस्थानकादतिक्रान्त उपशान्तमोहनिर्ग्रन्थलक्षणो यथाख्यातो भवति ॥ १३०३ ॥ ॥५६८
ततः किम् ?, इत्याहबैडाऊ पडिवन्नो सेढिगओ वा पसंतमोहो वा । जइ कुणइ कोइ कालं वच्चइ तोऽणुत्तरसुरेसु ॥१३०४॥
अनिबद्धाऊ होउं पसंतमोहो मुहुत्तमेत्तद्धं । उइयकसायो नियमा नियत्तए सेढिपडिलोमं ॥ १३०५॥
यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानकवर्ती वा, उपशान्तमोहो वा भूत्वा कालं करोति, तदा नियमेनानुतरसुरेष्वेवोत्पद्यते, श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनादिति । अथाऽबद्धायुस्ता प्रतिपद्यते,
तदाऽन्तर्मुहूर्तमुपशान्तमोहो भूत्वा ततः कुतश्चिद् निमित्तादुदितकषायः स नियमेन श्रेणिप्रतिलोमं पश्चान्मुखं निवर्तते प्रतिपतति, एताविन्मात्रकालभावित्वादेवास्याः ॥ इति गाथात्रयार्थः ॥ १३०४ ॥ १३०५ ॥
अत एव दुरन्तं कषायसामर्थ्यमुत्कीर्तयन्नाह___ठेवसामं उवणीया गुणमहया जिणचरित्तसरिसं पि। पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥१३०६॥
उपशमनमुपशमस्तमपिशब्दात् क्षयोपशममप्युपनीताः। केनोपशममुपनीताः?, इत्याह-गुणैर्महान् गुणमहान् उपशमकस्तेन गुणमहतोपशमकेन । प्रतिपातयन्ति कषायाः संयमात् , भवे वा। कम्। तमेवोपशमकम् । कथंभूतम् ।। जिनस्य केवलिनश्चारित्रेण
कृत्वा सदृशस्तुल्यो जिनचारित्रसदृशः, द्वयोरप्युपशान्त-मोहकेवलिनोः कषायोदयरहितचारित्रयुक्तत्वाजिनसमानचारित्र इत्यर्थः, तमेवं2 भूतमपि । किं पुनः शेषान् सरागस्थान् न प्रतिपातयन्ति ? ॥ इति नियुक्तिगाथार्थः ॥ १३०६ ॥
EPARANORINDIRACTOR
१ बदायुः प्रतिपन्नः श्रेणिगतो वा प्रशान्तमोहो वा । यदि करोति कोऽपि कालं प्रजति ततोऽनुत्तरसुरेषु ॥ १३०४॥
अनिबद्धायुर्भूत्वा प्रशान्तमोहो मुहूर्तमानार्धम् । उदितकषायो नियमाद् निवर्तते श्रेणिप्रतिलोमम् ॥ १३०५॥ २ उपशममुपनीता गुणमहता जिनचारित्रसदशमपि । प्रतिपातयन्ति कषायाः किं पुनः शेषान् सरागस्थान् । ॥ १३०६॥
॥५६८॥