________________
S
बृहद्वृत्तिः।
विशेषा. ॥५१॥
भमपि 'जानानः' इत्यत्र संबध्यते, स्वजनस्नेहादिना ततो वियोजितः संयमक्रियारहितः पुनरपि तत्रैव भवसागरे निमज्जेदेष संसारिजीवः ।। इति गाथाद्वयार्थः ।। ११४८ ॥ ११४९ ॥
अत्र प्रेरकः प्राह
आहण्णाणी कुम्मो पुणो निमज्जेज न उण तन्नाणी । सक्किरियापरिहीणो बुड्डइ नाणी जहन्नाणी ॥११५०॥ नेच्छइयनयमएण अन्नाणी चेव सो मुणन्तो वि । नाणफलाभावाओ कुम्मो व निबुड्डए भवोहे ॥११५१॥
आह परः- ननु चाज्ञानी हिता-ऽहितविभागपरिज्ञानशून्यः पुनरपि तत्रैव जले निमज्जेत् कूर्मः, नेह किमपि चित्रम् । एतत्तु न विदुषां मतं यत्-जैनमार्गज्ञो हिता-हितविभागवेत्ता ज्ञान्यपि भवसागरे पुनर्निमज्जति । अत्राचार्यः प्राह- ज्ञान्यपि पुनर्भवसागरे निमज्ज ति, सत्क्रियाविरहात , अज्ञानिकूर्मवत् समुद्र इति । 'वा' इत्यथवा, निश्चयनयमतेन जाननप्यज्ञान्येवासौ सक्रियापरिहीणः, ज्ञानफलस्य विरतेरभावात् । अतोऽज्ञानिकूर्म इव पुनर्बुडति निमज्जति भवौघे संसारसमुद्रसंबन्धिनि जन्म-जरी-ऽऽमय-मरणसलिलप्रवाहे । इति गाथाद्वयार्थः ॥ ११५० ॥११५१ ॥
अत एवाह नियुक्तिकारः
सुबहुं पि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ? ॥११५२॥
सुबहपि श्रुतमधीतं चरणविषहीणस्य निश्चयतोऽज्ञानमेव । अतस्तस्य फलशून्यत्वादकिश्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोव्यपि प्रदीप्ता न किञ्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात् तद्व्यादिकोटयोऽपि । इति नियुक्तिगाथार्थः॥ ११५२ ॥ अथ भाष्यम्संतं पि तमण्णाणं नाणफलाभावओ सुबहुयं पि । सकिरियापरिहीणं अंधस्स पईवकोडि व्व ॥ ११५३ ॥
आहाज्ञानी कूर्मः पुनर्निमजेद् न पुनस्तज्ज्ञानी । सक्रियापरिहीणो अडति ज्ञानी यथाऽज्ञानी ॥ ११५० ॥ मैत्रयिकनयमतेनाऽज्ञान्येव स जानन्नपि । ज्ञानफलाभावात् कूर्म इव निब्रुडेद् भवौधे ॥ ११५१॥ २ क. ग. 'रामर' । ३ सुबबपि श्रुतमधीतं किं करिष्यति चरणविहीणस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि ॥ ११५२ ॥ ४ सदपि तदशानं ज्ञानफलाभावतः सुबहुकमपि । सत्कियापरिहाणमन्धस्य प्रदीपकोदिरिव ॥ ११५३ ॥
॥५१८॥
ENSHema
Ja Educacions intem
For Personal and Private Use Only
www.jaineltrary.ary