SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ वितं मानुषजन्म त्वया लब्धम् । तल्लाभाच संसारसागरादुन्मन इवोन्मग्नस्त्वं वर्तसे । अतश्चरणकरणाद्यनुष्ठानप्रमादेन मा तत्रैव निमाविशेषा०सीरिति । न च वक्तव्यम् - विशिष्टश्रुतज्ञानयुक्तोऽहं तद्भलेनैव वस्तुपरिज्ञानमात्रादेव मुक्तिमासादयिष्यामीति; यतश्चरणगुणविहीणबृहदृत्तिः। सुबहपि श्रुतज्ञानेन जानन् ब्रुडति निमज्जति पुनरपि संसारसमुद्रे । अतो ज्ञानमात्रसमुत्थमवष्टम्भयपहाय चरणकरणानुष्ठान एवोद्यमो ॥५१७॥ विधेयः ॥ इति नियुक्तिगाथात्रयार्थः ।। ११४५ ॥ ११४६ ॥ ११४७ ॥ तृतीयगाथाभावार्थ भाष्यकारो दृष्टान्तेनाहसंसारसागराओ कुम्मो इव कम्मचम्मविवरेण । उम्मजिउमिह जइणं नाणाइपगासमासज ॥ ११४८ ॥ दुलहं पि जाणमाणो सयणसिणेहाइणा तयं तत्तो। संजमकिरियारहिओ तत्थेव पुणो निबुड्डेजा ॥११४९॥ अयमत्र भावार्थ:- यथा कश्चित् कूर्मः कच्छपस्तृणपत्रपटलमचुरातिनिबिडसेवालाच्छादितोदकान्धकारमहाहदान्तर्गतोऽनेकजलचरक्षोभादिव्यसनव्यथितमानसः सर्वतः परिभ्रमन् कथमपि सेवालरन्ध्रमासाद्य तेनैवोपरि निर्गत्य च शरत्पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुभूताऽन्यजलचरस्नेहाकृष्टचित्तः, तेषामपि वराकाणामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामि, इत्यवधार्य पुनस्तदेव इदमध्यं प्रविष्टः। अथ समाहूतशेषजलचरवृन्दस्तद्वन्ध्रोपलब्ध्यर्थं पर्यटन , अपश्यंश्च कष्टतरं व्यसनमनुभवति । एवमयमपि जीवकच्छपोऽनादिकर्मसंतानाच्छादिताद् मिथ्याज्ञानतिमिरानुगताद् विविधशिरो-नेत्रव्यथा-ज्वर-कुष्ठ-भगन्दरादिशारीरे-विप्रयोगा-निष्टसंप्रयोगादिमानसदुःखजलचरसमूहानुगतात् संसारसागरात् कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणं रन्ध्रमासाद्य मानुषत्वप्राप्त्योन्मग्नः सन् जिनवरेन्द्रचन्द्रवाक्चन्द्रिकासंगमसुखमनुभूय 'दुष्पापोऽयं जिनवचनबोधिलाभः' इत्येवं जानन्नपि स्वजनस्नेहविषयानुरक्तचित्ततया पुनरपि तत्रैव भवसागरे निमज्जेत् । अत उच्यते- 'मा त्वमित्थमस्मिन्नेव भवसागरे निमाडीः, किन्तु सदनुष्ठानेप्वप्रमादपरो भव' इति । अक्षरार्थस्तु सुगम एव, नवरं मनुष्यभवप्राप्त्यावारककमैव चर्म सेवालः कर्मचर्म तस्य विवरोऽनुदयावस्था तेन । 'जइणमित्यादि | जैन ज्ञानादिप्रकाशं ज्ञान-दर्शन-चारित्रस्वरूपावबोधात्मकं तत्स्वरूपश्रवणादिद्वारेण गुरुभ्यः समासाद्येति । 'तयं ति' ज्ञानादिप्रकाशं दुर्ल। संसारसागरात् कूर्म इव कर्मचर्मविवरेण । उन्मज्ज्येह जैन ज्ञानादिप्रकाशमासाद्य ॥ ११४८ ॥ ॥५१७॥ दुर्लभमपि जानन् स्वजनस्नेहादिना तत् ततः । संयमक्रियारहितस्तत्रैव पुनर्निछुढेत् ॥ 11४९ ॥ Jan Education interna For Personal and Private Use Only www.jaineitrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy