________________
PRORE
विशेषा०
बृहद्वत्तिः ।
॥५०७॥
गृहीतम् , एतावच्चाद्यापि पुरस्ताद् ग्रहीतव्यम् , इत्यादिविवक्षया पद-वाक्यादिक्रमेण विरचितं सत् तत्पदायनुसरता सुखेनैव श्रुतं गृह्यते, एवं गुणनाद्यपि सुखं भवति, अत एतेभ्यः कारणेभ्यः 'जीयं पि यत्ति' जीवितं श्रुतम् । अथवा, जीवितं मर्यादा । यदिवा जीवितं सर्वानुचीर्णम् । कोऽर्थः१, इत्याह- 'कायव्वमित्यादि' कर्तव्यमिदं यतोऽवश्यं सगणधरैः, इत्युत्तरगाथायां संबन्धः। ततो जीवितं द्वादशाङ्गश्रुतं, मर्यादा, सर्वगणधराचीर्ण वेदमिति कृत्वा कृतं कथितं गणधरैरिति । तदेवं 'जीयं' इति शब्दस्यार्थत्रयं भवति, इति तांस्त्रीनप्यर्थीस्तस्य दर्शयति- 'जीयं ति सुर्य' इत्यादि । शेष सुगमम् ।। इति गाथाचतुष्टयार्थः ॥१११४ ॥१११५ ॥ १११६ ॥१११७ ॥
उत्तरनियुक्तिगाथासंबन्धनार्थमाहजिणभणिइ च्चिय सुत्तं गणहरकरणम्मि को विसेसो त्थ ? । सो तदविक्खं भासइ न उ वित्थरओ सुयं किंतु॥१११८॥
ननु 'तित्थयरभासियाई गंथंति' इत्यादिवचनाजिनभणितिरेव तीर्थकरोक्तिरेव तर्हि श्रुतम् , गणधरसूत्रीकरणे तु तत्र को विशेषः । अत्रोच्यते- स तीर्थकरस्तदपेक्षं गणधरमज्ञापेक्षमेव किश्चिदल्पं भाषते, न तु सर्वजनसाधारणं विस्तरतः समस्तमपि द्वादशाङ्गश्रुतम् , किन्तु यद् भाषते तद् दयते- ॥ इति गाथार्थः ॥ १११८ ॥
किं पुनस्तत् ?, इत्याह
अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तेइ ॥ १११९॥
अर्थमेवाहन भाषते, न सूत्रं द्वादशाङ्गरूपम् । गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बहथं चेत्यर्थः। अथवा, नियताः प्रमाणनिश्चिता गुणा यत्र तद् नियतगुणं निगुणं ग्रथ्नन्ति । ततः शासनस्य हितार्थ सूत्र प्रवर्तते ॥ इति नियुक्तिगाथाक्षरार्थः॥१११९ ॥
भाषार्थं त्वभिधित्सुर्भाष्यकारःप्रेर्य परिहारं च माहनैणु अत्थोऽणभिलप्पो स कहं भासइ न सहरूवो सो ? । सदम्मि तदुवयारो अत्थप्पच्चायणफलम्मि ॥११२०॥
जिनभणितिरेव सूत्रं गणधरकरणे को विशेषोऽत्र ! । स तदपेक्षं भाषते न तु विस्तरतः श्रुतं किन्तु ॥ १११८॥ २ गाथा १०९५ । ३ अर्थ भाषतेजन सूत्र प्रान्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूर्य प्रवर्तते ॥ १११९ ॥ . नन्वर्थोऽनभिलाग्यः स कथं भापते न शब्दरूपः सः । शब्दे तदुपचारोऽधप्रत्यायनफले ॥ ११२० ॥
५०७॥
Jan Education Internatio
For Personal and Private Use Only
www.jaineltrary.ory