________________
विशेषा
बृहद्वत्तिः ।
॥५०६॥
PSE
मुस्कलं भगवता तीर्थकरेणोक्तं वचनवृन्दं मुत्कलकुसुमनिकुरम्बमिव ग्रथितं सूत्रीकृतं सद् ग्रहीतुं वाऽऽदातुं सुखं भवति । इदमुक्तं भवति-पद-वाक्य-प्रकरणा-ऽध्याय-प्राभृतादिनियतक्रमस्थापितं जिनवचनमयत्नत एव ग्रहीतुं शक्यम्- 'एतावदस्य गृहीतम् , 'एतावच्चा- द्यापि पुरस्ताद् ग्रहीतव्यम्' इत्यादिविवक्षया ग्रथितं सत् सुखेनैव ग्रहीतुं शक्यमित्यर्थः । तथा, गुणनं च धारणा च गुणन-धारणे, ते अपि ग्रथिते मूत्रे सुखं भवतः । तत्र गुणनं परावर्तनमभ्यासः, धारणा त्वविच्युतिरविस्मृतिः। तथा, दातुं प्रष्टुं च सुखमेव भवति । तत्र दानं शिष्येभ्योऽतिसर्जनम् , प्रश्नस्तु संशयापन्नस्य निःसंशयार्थ गुरुपच्छनम् । एतैः कारणैः कृतं रचितं गणधरैः। किं तत्, इत्याह- 'जीयं ति' जीवितं श्रुतं द्वादशाङ्गम् । अयमत्राभिप्राय:- यथा जीवस्य जीवितमात्रं न कदाचिद् व्यवच्छिद्यते, तथाऽव्यवच्छित्तिनयाभिप्रायतः श्रुतमपि न कदाचिद् व्यवच्छिद्यते । अतो जीवितमिव जीवितं श्रुतमुच्यते, तद्गणधरैः सुखग्रहणादिकारणेभ्यः कृतम् । अथवा, न सुखादिकारणेभ्य एव, किं तर्हि , 'जीयं ति' जीवितं मर्यादा, ततश्च गणधराणां जीवितं धर्मो मर्यादेवेयं यदुत|तन्नामकर्मोदयतस्तत्स्वाभाव्यात् कर्तव्यमेव तैः श्रुतविरचनम् । अथवा, 'जीयं ति' जीवितमाचरितम् , कल्प एवाऽयं सर्वगणधराणां यत्- तैः संदर्भणीयमेव श्रुतम् । अतः समस्तगणधरैरेतस्मादपि हेतोः कृतं श्रुतं 'इदम्' इति शेषः ॥ इति नियुक्तिगाथार्थः ॥१११३॥
अत्र भाष्यम्
मुक्ककुसुमाणं गहणाइयाइं जह दुक्करं करेउं जे । गुच्छाणं तु सुहयरं तहेब जिणवयणकुसुमाणं ॥१११४॥ पय-वक्क-पगरण-ज्झाय-पाहुडाइनियतक्कमपमाणं । तदणुसरता सुहं चिय घेप्पइ गहियं इदंगेझं ॥१११५॥ एवं गुणणं धरणं दाणं पुच्छा य तदणुसारेणं । होइ सुहं जीयं पि य कायव्वमिदं जओऽवस्सं ॥१११६।।
सव्वेहिं गणहरेहिं जीयं ति सुयं जओ न वोच्छिन्नं । गणहरमजाया वा जीयं सव्वाणुचिन्नं वा॥१११७॥
यथा मुत्कानां मुत्कलानां कुसुमानां ग्रहणादीनि कर्तुं दुष्कराणि, ग्रथितानां तु सुकराणि, तथा जिनवचनकुसुमानामपि द्रष्टव्यम् । अतो गणधरास्तानि ग्रनन्ति । 'अज्झाय त्ति' अध्ययनम् , प्राभृतं पूर्वान्तर्गतः श्रुतविशेषः । 'गहियं इदं गेझं ति' एतावदस्य
• मुस्ककुसुमानां ग्रहणादिकानि यथा दुष्कराणि कर्तुम् । गुच्छानां तु सुखकरं तथैव जिनवचनकुसुमानाम् ॥ १११४ ॥ पद-वाक्य-प्रकरणा-ऽध्याय-प्राभूतादिनियतक्रमप्रमाणम् । तदनुसरता सुखमेव गृह्यते गृहीतमिदं ग्राह्यम् ॥ १११५॥ एवं गुणनं धरणं दानं पृच्छा च तदनुसारेण । भवति सुखं जीवितमित्यपि च कर्तव्यमिदं यतोऽवश्यम् ॥ १११६॥ संवर्गणधरैर्जीवितमिति श्रुतं यतो न व्यवच्छिन्नम् । गणधरमर्यादा वा जीवितं सर्वानुचीण वा ॥१११७ ।।
५०६॥
Jan Education Internatio
For Personal and Private Use Only
www.jaineitrary.ary