SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ बृहदा विशेषा ॥२५५॥ 'स्वृ शब्दो-पतापयोः' अक्षराणां व्यञ्जनानां स्वरणेन संशब्दनन स्वरा अकारादयः प्रोच्यन्ते । अथवा, अक्षरस्य चैतन्यस्य स्वरणात् संशब्दनात् स्वराः, शब्दोच्चारणमन्तरेणाऽन्तर्विज्ञानस्य बोधुमशक्यत्वात्, शब्दे च स्वरसद्भावादिति । व्यञ्जनमपि कादिक- मुच्यते केन', इत्याह--व्यञ्जनेन व्यक्तीकरणेन प्रकटनेनार्थस्य । अक्षरशब्दः पूर्व ज्ञानवाचकत्वेन व्युत्पादितः, सांपतं वर्णवाचकत्वेन व्युत्पादयति- 'अत्थे य इत्यादि' अर्थान-- अभिधेयान् क्षरति संशब्दयतीति निरुक्तिविधिना र्थकारलोपादक्षरम् । अथवा, क्षीयत इति क्षरं, न क्षरमक्षरम्, अन्यान्यवर्णसंयोगेऽनन्तानर्थान् प्रतिपादयति, न च स्वयं क्षीयते येन, तेनाऽक्षरमिति भावः ॥ ४६१॥ संक्षेपण स्वरव्यञ्जनशब्दार्थो दर्शितः; अथ विशेषतस्तमुपदर्शयति सुद्धा वि सरंत सयं सारंति य बंजणाई जं तेणं । होंत सरा न कयाइ वि तेहिं विणा वंजणं सरइ ॥४६२॥ वंजिज्जइ जेणत्थो घडो व्व दीवेण वंजणं तो तं । अत्थं पायेण सरा वंजंति न केवला जेणं ॥४६३॥ शुद्धाः केवला व्यञ्जनरहिता अप्यकारादयः स्वराः स्वयमेव स्वरन्ति शब्दयन्ति विष्णुप्रमुखं वस्तु, व्यञ्जनानि चैते संयुक्ताः सन्तः स्वरयन्ति उच्चारणयोग्यानि कुर्वन्ति यतः, तेन कारणेन स्वरा भवन्त्येते । न हि कापि तैः खरैविना व्यञ्जनस्य स्वरणमर्थप्रतिपादनं दृश्यते । नापि परगमने पिण्डीभूतानि व्यञ्जनानि स्वरैर्विनोच्चारयितुं शक्यन्ते, अतो व्यञ्जनस्वरणादप्येते स्वरा उच्यन्त इति भावः । व्यज्यते प्रकटीक्रियते प्रदीपेनेव घटादिरर्थोऽनेनेति कृत्वा व्यञ्जनमभिधीयते, व्यञ्जनसाहाय्यविरहिता यतः केवलाः स्वराः प्रायो न कदाचिद् बाह्यमर्थ व्यञ्जयन्ति, अपनीतव्यञ्जनं हि वाक्यं न विवक्षितार्थप्रतिपादनायाऽलं दृश्यते, यथा 'सम्यग्दर्शन-ज्ञान-चारित्राणि' इत्यत्र वाक्ये व्यञ्जनापगमे एते स्वराः समवतिष्ठन्ते- 'अ-अ-अ-अ-अ-आ-अ-आ-इ-आ-ई। न चैते विवक्षितमर्थ प्रतिपादयितुं समर्थाः । अकारे-कारादयः केवला अपि विष्णु-मन्मथादिकमर्थं प्रतिपादयन्तीति पायोग्रहणम् । ___ अत्राह- नन्वकारादयो विष्णुप्रभृतीनां संज्ञा एव । एवं च सति यथा केवलेन स्वरेण संज्ञा, तथा संकेतवशात् केवलेन व्यञ्जनेनाप्यसो भविष्यति, तत्कथं पूर्वगाथायामुक्तम्- 'न कयावि तेहिं विणा वंजणं सरइ' इति ? | सत्यम् , तत्राऽयमभिप्राय:स्वरैः केवलैरपि काचित् कचित् संज्ञा दृश्यते, व्यञ्जनैस्तु सर्वथा तद्रहितैर्न काचित् संज्ञा वीक्ष्यत इति ॥ ४६२ ॥ ४६३ ॥ नामदारासमराह ॥२५५॥ १ क.ख.ग. 'तो वि। २ शुद्धा अपि स्वरन्ति स्वयं स्वरयन्ति च व्यञ्जनानि यत् तेन । भवन्ति स्वरा न कदाचिदपि तैर्विना व्यजनं स्वरति ॥ ४६२ ॥ - व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं ततस्तत् । अर्थ प्रायेण स्वरा व्यञ्जन्ति न केवला येन ॥ ४६३॥ ३ के.ख.ग. 'व सर। Jan Educontent For Personal and Private Use Only www.jaineltrary.ary
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy