________________
विशेषा०
॥२५४॥
SHRISTIBRAR
यदि न क्षरतीत्यक्षरमुच्यते, एवं सति सर्वं पञ्चप्रकारमपि ज्ञानमविशुद्धनयमतेनाऽक्षरमेव, सर्वस्याऽपि ज्ञानस्य स्वरूपाविचलनात् । यतश्चाऽविशेषितं सूत्रेऽप्यभिहितमित्युषस्कारः, तद्यथा- "सव्वजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति । तत्र ह्यक्षरशब्देनाऽविशेषितमेव ज्ञानमभिप्रेतम् , न पुनः श्रुतज्ञानमेव । अपरं च, सर्वेऽपि भावा अविशुद्धनयाभिप्रायेणाऽक्षरा एव, ततोत्र श्रुतज्ञाने का प्रतिविशेषः, येनोच्यते- 'अक्षरश्रुतम् , अनक्षरश्रुतम्' इति ? ॥ ४५८ ॥
अत्रोत्तरमाह
जैइ विहुसव्वं चिय नाणमक्खरं तह विरूढिओ वन्नो । भण्णइ अक्खरमिहरा न खरइ सव्वं सभावाओ॥४५९॥
यद्यप्यविशुद्धनयाभिप्रायेण सर्वमपि ज्ञानमक्षरं, तथा सर्वेऽपि भावा अक्षरास्तथापि रूढिवशाद् वर्ण एवेहाऽक्षरं भण्यते, इतरथा तु यथा त्वं भणसि, तथैवाऽशुद्धनयमतेन सर्वमपि वस्तु स्वभावाद् न क्षरत्येवेति । इदमुक्तं भवति- यथा गच्छतीति गौः, पङ्के जातं पङ्कजं, इत्याद्यविशिष्टार्थप्रतिपादका अपि शब्दा रूढिवशाद् विशेष एव वर्तन्ते, तथानाप्यक्षरशब्दो वर्ण एव वर्तते । वर्णश्च श्रुतमेवेति, अतस्तदेवाक्षरा-ऽनक्षररूपमुच्यत इति ।। ४५९ ॥
अथास्य श्रुतरूपस्य वर्णस्य निरुक्तमाह
वैण्णिज्जइ जेणत्थो चित्तं वण्णेण वाऽहवा दव्वं । वणिजइ दाइज्जइ भण्णइ तेणक्खरं वण्णो ॥ ४६॥
वर्ण्यते प्रकाश्यतेऽर्थोऽनेनेति वर्णोऽकार-ककारादिः । येन यथा किम् ?, इत्याह- 'चित्तं वण्णेण व त्ति' यथा चित्रं भित्त्याद्यालेख्यं वर्णेन कृष्ण-नीलादिवर्णकेन प्रकाश्यते । 'अहवा दवं वणिजईत्यादि' अथवा यथा द्रव्यं गवादिकं वर्णेन श्वेतादिगुणेन दयते, एवं येन द्रव्यं वर्ण्यते दयतेऽभिलप्यतेऽसौ वर्णोऽक्षरमुच्यत इति ॥ ४६॥
वर्णश्च स्वर-व्यञ्जनभेदेन द्विधा भवति, अतः स्वर-व्यञ्जनशब्दयोरप्यर्थमाह
अक्खरसरणेण सरा वंजणमवि वंजणेण अत्थस्स। अत्थे य खरइ न य जेण खिजइ अक्खरं तेणं ॥४६१॥
राजपाका
, सर्वजीवानामपि चाक्षरस्याऽनन्तभागो नित्योद्घाटितः। २ यद्यपि खलु सर्वमेव ज्ञानमक्षरं तथापि रूदितो वर्णः । भण्यतेऽक्षरमितरथा न क्षरति सर्व स्वभावात् ॥ ४५९ ॥ ३ वर्यते येनाऽर्थश्चित्रं वर्णेन वाऽथवा द्रव्यम् । वर्ण्यते, दयते भण्यते तेनाऽक्षरं वर्णः ॥ ४६० ॥ १ अक्षरस्वरणेन स्वरा ग्यजनमपि व्यञ्जनेनाऽर्थस्य । अर्थे च क्षरति न च येन श्रीयतेऽक्षरं तेन ॥४५॥
॥२५४॥
For Pesand Private Use Only