SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वृत्तिः । ॥२५३॥ अक्षरादीनि सप्त द्वाराण्यनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति ॥ ॥ ४५४ ॥ तत्रायद्वारं व्याचिख्यासुराह ने क्खरइ अणुवओगे वि अक्खरं सो य चेयणाभावो । अविसुद्धनयाण मयं सुद्धनयाण क्खरं चेव ॥४५५॥ 'क्षर संचलने ' न क्षरति न चलति- अनुपयोगेऽपि न प्रच्यवत इत्यक्षरं, स च चेतनाभावो जीवस्य ज्ञानपरिणाम इत्यर्थः । एतच्च नैगमादीनामविशुद्धनयानां मतम् । शुद्धानां तु ऋजुमूत्रादीनां ज्ञानं क्षरमेव, न त्वक्षरमिति ॥ ४५५ ।। कुतः', इत्याह उवओगे वि य नाणं सुद्धा इच्छंति जं न तम्बिरहे । उप्पाय-भंगुरा वा जं तेसिं सव्वपज्जाया ॥४५६॥ पद् यस्माच्छुद्धनया उपयोग एव सति ज्ञानमिच्छन्ति, नानुपयोगे, घटादेरपि ज्ञानवत्प्रसङ्गात् । अथवा, यद् यस्मात् तेषां शुद्धनयानां सर्वेऽपि मृदादिपर्याया घटादयो भावा उत्पाद-भङ्गुरा उत्पत्तिमन्तो विनश्वराश्चेत्यर्थः, न पुनः केचिद् नित्यत्वादक्षरा इति भावः । अतो ज्ञानमप्युत्पाद-भङ्गुरत्वेन क्षरमेवेति प्रकृतम् । अशुद्धनयानां तु सर्वभावानामप्यवस्थितत्वाज्ज्ञानमयक्षरमिति ॥ ४५६॥ एवं तावदभिलापहेतोर्विज्ञानस्याऽक्षरता, अनक्षरता चोक्ता, इदानीं साभिलापविज्ञानविषयभूतानामाभलाप्यार्थानामप्यक्षराऽनक्षरते नयविभागेनाह अभिलप्पा वि य अत्था सव्वे दव्वाट्टयाए जं निच्चा । पजायेणानिच्चा तेण खरा अक्खरा चेव ॥ ४५७ ॥ अभिलप्या अप्यर्था घट-व्योमादयः सर्वेऽपि द्रव्यास्तिकनयाभिप्रायेण नित्यत्वादक्षराः, पर्यायास्तिकनयाभिप्रायेण त्वनित्यत्वात् क्षरा एवेति ॥ ४५७ ॥ अथ परोऽतिव्याप्तिमुद्भावयन्नाह ऎवं सव्वं चिय नाणमक्खरं जमविसेसियं सुत्ते । अविसुद्धनयमएणं को सुयनाणे पइविसेसो ? ॥४५८ ॥ न क्षरत्यनुपयोगेऽप्यक्षरं स च चेतनाभावः । अविशुद्धनयानां मतं, शुद्धनयानां क्षरमेव ॥ ४५५ ॥ २ उपयोगेऽपि च ज्ञानं मुद्धा इच्छन्ति यद् न तहिरहे । उत्पाद-भङ्गुरा वा यत् तेषां सर्वपर्यायाः ॥ ४५६ ॥ ३ अभिलप्या भपि चार्थाः सर्वे च्यास्तिकेन येद् नित्याः । पर्यायेणाऽनित्यास्तेन क्षरा अक्षरा एवं ॥ ४५७ ॥ ४ एवं सर्वमेव ज्ञानमक्षरं यदविशेषितं सूत्रे । अविशुद्धनयमतेन कः श्रुतज्ञाने प्रतिविशेषः ॥ ४५८ ॥ ॥२५३॥ Jain Education interna For Donald Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy