________________
Sare
विशेषा०
बृहद्वृत्तिः ।
॥२५२॥
एतदेव भावयति
जावंतो वयणपहा सुयाणुसारेण केइ लब्भंति । ते सव्वे सुयनाणं ते याणंता मइविसेसा ॥ ४५१ ॥
इह यावन्तः केचन श्रुतानुसारेण संकेता. श्रुतग्रन्थानुसारेण लभ्यन्ते प्राप्यन्ते वचनस्य पन्थानो मार्गा मतिज्ञानाविशेषा इति तात्पर्यम् , ते सर्वेऽपि श्रुतज्ञानमिति । एवं 'ते' वि य मईविसेसे सुयनाणभंतरे जाण' इत्यादिमति-श्रुतभेदविचारे पूर्व प्रतिपादिताः, ते च श्रुतानुसारिणो मतिविशेषा अनन्ता इति । ननु यदि मतिविशेषाः कथं श्रुतज्ञानम् ?, इति तु न प्रेर्यम् , श्रुतानुसारिणो विशिटस्य मतिविशेषस्यैव श्रुतत्वात् । एतच्च पूर्व विस्तरेण समर्थितमेवेति ॥ ४५१॥
यदि नामाऽनन्ताः श्रुतभेदास्तथापि ते वक्तुं शक्यन्त एव, इत्याशङ्कयाह
उकोससुयन्नाणी वि जाणमाणो वि ते भिलप्पे वि । न तरइ सव्वे बोत्तुं न पहुप्पइ जेण कालो से ॥४५२॥
उत्कृष्टश्रुतज्ञानलब्धिसंपन्नोऽपि चतुर्दशपूर्वधरो जाननपि, आभिलप्यानपि तान् श्रुतज्ञानविशेषाननन्तान् सर्वानपि वक्तुं न शक्नोति । कुतः, इत्याह- येन कारणेन 'से' तस्योत्कृष्टश्रुतज्ञानिनो वदतः कालो न प्रभवति न पूर्यते, आयुषः परिमितत्वात् , वाचश्च क्रमवतित्वात् । यदा चोत्कृष्टः श्रुतधरोऽपि सर्वान् श्रुतभेदान् वक्तुं न शक्नोति, तदाऽन्यस्याऽस्मदादेः का वार्ता ? इति भावः ।।४५२॥
'चोदसविहनिक्खेवं' इत्याद्युत्तरार्धं व्याचिख्यासुराह
नाणम्मि सुए चोदसविहं चसद्देण तह य अन्नाणे । अविसद्देणुभयम्मि वि किंचि जहासंभवं वोच्छ ॥४५३||
सम्यकश्रुतादौ श्रुतज्ञाने चतुर्दशविधं निक्षेपं चशब्देन श्रुताज्ञाने च मिथ्याश्रुतादौ, अपिशब्दादुभयरूपे च दर्शन-परिग्रहविशेपादक्षरी-ऽनक्षरादिश्रुते किंचिद् यथासंभवं निक्षेपं वक्ष्ये ॥ इति गाथाचतुष्टयार्थः ॥ ४५३ ॥
तमेव चतुर्दशविधं निक्षेपमाहअक्खर सपणी सम्म साईयं खलु सपजवसियं च । गमियं अंगपविटुं सत्त वि एए सपडिबक्खा ॥४५४॥
यावन्तो वचनपथाः श्रुतानुसारेण केऽपि लभ्यन्ते । ते सर्दे श्रुतज्ञानं ते चाऽनन्ता मतिविशेषाः ॥ ४५ ॥ २ गाथा १४३ । ३ उत्कृष्टभुतज्ञान्यपि जानशपि तानभिलप्यानपि । न शक्नोति सर्वान् वक्तुं न प्रभवति येन कालस्तस्य ॥ ४५२ ॥ ४ गाथा ४४९ । ५ ज्ञाने श्रुते चतुर्दशविध चशब्देन तथा चाऽज्ञाने । अपिशब्देनोभयस्मिनपि किञ्चिद् यथासंभवं वक्ष्ये ॥४५३॥ ६ प.छ. 'रादि। ७ अक्षरं संजि सम्यक् सादिकं खलु सपर्यवसितं च । गमिकमश्पविष्टं सप्ताऽप्येते सप्रतिपक्षाः ॥ ४५४ ॥ ८ क.ग. 'तु' ।
॥२५२॥