________________
PERICA
यतोऽभिधेयमनन्त, भिन्नरूपं, भिन्नाभिधान; तेन कारणेनाऽक्षरसंयोगरूपाणामभिधानानां यत् संख्यारूपं मानं परिमाणं विशेषा० तदपि भवति । कियत् ?, इत्याह- अभिधेयगताऽनन्तपर्यायराशितुल्यं यत्परिमाणमभिधेयं तत्परिमाणमभिधानमपि भवतीत्यर्थः,
अभिधेयभेदेनाऽभिधानस्याऽपि भेदात् । न हि येनैव रूपेण घटादिशब्देऽकारादिवर्णाः संयुक्तास्तेनैव रूपेण पटादिशब्देऽपि, अभिधे॥२५॥
यैकत्वप्रसङ्गात् , एकरूपशब्दाभिधेयत्वात् , घट-तत्स्वरूपवदिति । अतोऽभिधेयानन्त्यादभिधानानन्त्यमिति । यद् यतः सूत्रेऽप्यभिहितम्BH "अणंता गमा अणंतपज्जवा" इति । अतः स्थितमेतत्- "संजुत्ता-संजुत्ताणं' इत्यादि ॥ इति गाथाचतुष्टयार्थः ॥ ४४८॥
यत एवमनन्ताः श्रुतज्ञानप्रकृतयो भवन्ति, अतः___ कत्तो मे वण्णेउं सत्ती सुयनाणसव्वपयडीओ ? । चोदसविहनिक्खेवं सुयनाणे आवि वोच्छामि ॥४४९॥
कुतो मे शक्तिः सामर्थ्यम् ?, नास्त्येवेत्यर्थः । किं कर्तुं ?, वर्णयितुम् । काः?, श्रुतज्ञानसर्वप्रकृतीः सर्वांस्तद्भेदान् । ततश्चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपो न्यासस्तं वक्ष्यामि भणिष्यामि, श्रुतज्ञाने श्रुतविषयं, चशब्दात् श्रुताज्ञानविषयं च, आपशब्दादुभ-8 यविषयं च । तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने असंज्ञि-मिथ्याश्रुते, उभयश्रुते दर्शनपरिग्रहविशेषादक्षरा-ऽनक्षरादिश्रुते ॥ इति नियुक्तिगाथार्थः॥ ४४९ ॥
अथैतद्भाष्यम्
पैयडि त्ति जो तदंसो हेऊ वा तस्स, तस्स मावो वा । ते याणंता सव्वे तओ न तीरंति वोत्तुं जे ॥४५॥
इह प्रकृतिरिति किमुच्यते ?, इत्याह- यस्तदंशः श्रुतज्ञानांशस्तद्भेदोऽङ्गभविष्टादिरित्यर्थः । हेतुर्वा बाह्याऽऽभ्यन्तरभेदभिन्नो यः श्रुतज्ञानस्य स प्रकृतिः । तत्र बाह्यो हेतुः श्रुतज्ञानस्य पत्रंलिखिताक्षरादिः, आन्तरस्तु तद्धेतुः क्षयोपशमवैचित्र्यं, तस्य श्रुतस्य स्वभावो वैकेन्द्रियादीनां चतुर्दशपूर्वधरान्तानां जीवानां तारतम्येन भिन्नरूपः प्रकृतिः प्रोच्यते । एते चांशाः, हेतवः, स्वभावाश्चाऽनन्ताः सर्वेऽपि अत आयुषः परिमितत्वाद् वाचश्च क्रमवर्तित्वाद् न शक्यन्ते वक्तुम् । 'जे' इति निपातोऽलङ्कारार्थ इति ॥ ४५० ॥
१५.छ. 'यतश्च सू' क.ख, 'यत् ततः' । २ अनन्ता गमा अनन्तपर्यवाः । ३ गाथा ४४५ ।
कुतो मे वर्णयितुं शक्तिः श्रुतज्ञानसर्वप्रकृतीः । चतुर्दशविधनिक्षेपं श्रुतज्ञाने चापि वक्ष्यामि ॥४४९॥ ५ क. 'अत्रैत'।' ६ प्रकृतिरिति यस्तदंशो हेतुर्वा तस्य, तस्य भावो वा । ते चानन्ताः सर्वे ततो न शक्यन्ते वक्तुम् ॥ ४५०॥ ७ स. 'नलक्षिता'।
NAHATMANASTEREMCHANNERALIATER
॥२५॥