________________
विशेषा
॥२५०॥
योगाः ?, इत्याह- तेषामकार-ककाराद्यक्षराणाम् । कथंभूतानाम् ?, इत्याह- संयुक्ता-ऽसंयुक्तानाम् । तत्र संयुक्तकाक्षरसंयोगो यथाऽब्धिमाप्त इत्यादि । असंयुक्तकाक्षरसंयोगो यथा- घटः, पट इत्यादि । एते चाक्षरसंयोगा अनन्ताः । एकैकश्च संयोगः ख-परपर्यायैः पूर्वाभिहितन्यायेनाऽनन्तपर्याय इति ॥ ४४५ ॥
अत्र परमतमाशङ्कयोत्तरमाह
संखिजक्खरजोगा होंति अणंता कहं, जमभिधेयं । पंचत्थिकायगोयरमन्नोन्नविलक्खणमणंतं ॥ ४४६ ॥
संख्येयानि च तान्यकाराद्यक्षराणि च संख्येयाक्षराणि तेषां योगाः संयोगाः कथमनन्ता भवन्ति ?-- न घटन्त एवेति भावः। अत्रोत्तरमाह- यद् यस्मात् संख्येयानामप्यक्षराणामभिधेयमनन्तम् । कथंभूतम् ?, इत्याह- अन्योन्यविलक्षणं परस्परविसदृशम् । किविषयम् ?, इत्याह-पश्चास्तिकायगोचरं पश्चास्तिकायगतस्कन्ध-देश-प्रदेश-परमाणु इयणुकादिकम् । अभिधेयानन्त्याच्चाभिधानस्याऽप्यानन्त्यमवसेयमिति ।। ४४६॥
एतदेव भावयति
अणुओ पएसवुड्ढीए भिन्नरूवाइं धुवमणंताई । जं कमसो दव्वाइंतुी हवंति भिन्नाभिहाणाइं॥ ४४७॥
इह यस्मादणुतः परमाणुतः भारभ्य क्रमशः प्रदेशया पुद्गलास्तिकायेऽपि ध्रुवं सर्वदैवाऽनन्तानि भिन्नरूपाणि द्रव्याणि प्राप्यन्ते, भिन्नाभिधानानि चैतानि, यथा- परमाणुः,यणुका, त्र्यणुका, चतुरणुको यावदनन्तप्रदशिक इति । प्रत्येकं चानेकाभिधानान्येतानि, तद्यथा- अणुः, परमाणुः, निरंशः, निर्भेदः, निरवयवः, निष्पदेशः, अप्रदेश इत्यादि तथा, द्वयणुकः, द्विपदेशिकः, द्विभेदः, द्वयवयव इत्यादि सर्वद्रव्य-सर्वपर्यायेवायोजनीयम् ।। ४४७ ॥
यस्माच्चैवमभिधेयमनन्तं विसदृशरूपं भिन्नाभिधानं च; तस्मात् किम् ?, इत्याह
तेणाभिहाणमाणं अभिधेयाणंतपज्जवसमाणं । जं च सुयम्मि वि भणियं अणंतगम-पज्जयं सुत्तं ॥ ४४८॥ १ संख्येयाक्षरयोगा भवन्त्यनन्ताः कथं, यदभिधेयम् । पञ्चास्तिकायगोचरमन्योन्यविलक्षणमनन्तम् ॥ ४४६ ।। २ क.ख.ग. णि ते' । ३ घ.छ. 'गाः । ४ अणुतः प्रदेशवृद्ध्या भिन्नरूपाणि भुवमनन्तानि । यत् क्रमशो द्रव्याणीह भवन्ति भिन्नाभिधानानि ॥ ४४७॥ ५क. 'तः प्रा'। ६ तेनाभिधानमानमभिधेयानन्तपर्यवसमानम् । यच्च श्रुतेऽपि भणितमनन्तगम-पर्ययं सूत्रम् ॥ ४५८ ॥
२५०॥
For Personal and Private Use Only