________________
अथोपसंहरन्नाहविशेषा
लैक्खण-विहाण-विसया-णुओगदारेहिं वणिया बुद्धी । तयणंतरमुद्दिई सुयनाणमओ परूविरस ॥ ४४३ ॥
लक्षणमाभिनिवोधिकशब्दव्युत्पत्तिः, विधानं भेदोऽवग्रहादिः, विषयो द्रव्यक्षेत्रादिः, अनुयोगद्वाराणि सत्पदप्ररूपणतादीनि, INR एतैः सर्वैरपि यथोक्तक्रमेणाभिनिवोधिकज्ञानलक्षणा वर्णिता व्याख्याता बुद्धिः । ततस्तदनन्तरोद्दिष्टं श्रुतज्ञानं प्ररूपयिष्ये ॥ इति गाथापञ्चकार्थः ॥ ४४३ ॥
॥ तदेवमाभिनिबोधिकज्ञानं समाप्तमिति ॥ अथ श्रुतज्ञानमारभ्यते । अत्र चान्तरे 'आभिणियोहियनाणे अहावीसं' इत्यादिगाथा नियुक्ती दृश्यते, तां च सुगमां, उक्तार्थी वा मन्यमानोऽतिक्रम्य विहितसंबन्धामेवातनगाथामाह
पैत्तेयमक्खराइं अक्खरसंजोग जत्तिया लोए । एवइया सुयनाणे पयडीओ होंति नायव्वा ॥ ४४४ ॥
एकमेकं प्रति प्रत्येकमक्षराण्यकारादर्दान्यनेकदानि, यथा- अकारः सानुनासिकः, निरनुनासिकश्चः पुनरे कैकस्त्रिधा- इस्वः, दीर्घः, प्लुतश्चेतिः पुनरेकैकत्रिविधः- उदात्तः, अनुदात्तः, स्वरितश्चेति । एवमकारोऽष्टादशभेदः । एवमिकारादिष्वपि यथासंभवं भेदजालमभिधानीयमिति । तथा, अक्षराणां संयोगा अक्षरसंयोगा द्यादयो यावन्तो लोके, यथा- घटः, पट इत्यादि, व्याघ्रः, स्त्रीत्यादि । एवमेतेऽनन्ताः संयोगाः, तत्राप्येकैकः खपर्यायापेक्षयाऽनन्तपर्यायः। अत एतावत्यः श्रुतज्ञाने प्रकृतयो भेदा ज्ञातव्याः॥ इति नियुक्तिगाथार्थः ॥ ४४४ ॥
अथ भाष्यम्
सैंजुत्ता-संजुत्ताण ताणमेकक्खराइसंजोगा । होंति अणंता तत्थ वि एक्केकोऽणंतपज्जाओ ॥ ४४५ ॥ एकमक्षरमादिर्येषां यादीनां तान्येकाक्षरादीनि तेषां संयोगा एकाक्षरादिसंयोगास्तेऽनन्ता भवन्ति । केषां ये एकाक्षरादिसं
, लक्षण-विधान-विषया-ऽनुयोगद्वारणिता बुद्धिः । तदनन्तरमुद्दिष्ट श्रुतज्ञानमतः प्रस्पयिष्ये ॥ ४४३ ॥ २ आभिनिबोधिकज्ञानेऽष्टाविंशतिः। ३ नियुक्ती गाथा १६ । ४ प्रत्येकमक्षराणि अक्षरसंयोगा यावन्तो लोके । एतावत्यः श्रुतज्ञाने प्रकृतयो भवन्ति ज्ञातव्याः ॥ ४४४ ॥ ५ संयुक्ता संयुक्तानां तेषामेकाक्षरादिसंयोगाः । भवन्त्यनन्तास्तत्राप्येकैकोऽनन्तपर्यायः ॥ ४४५॥
S
॥२४९॥
ainles
For Personal and eve
ry