________________
Rare
विशेषा०
॥२४८॥
'नेहत्थओ विसेसो भाग-प्पबहूण तेण तस्सेव । पडिवज्जमाण-पडिवनगाणमप्पा-बहुं जुत्तं ॥ ४४०॥ गताथैव ।। ४४०॥
वृहद्वत्तिः । अथ यदेव युक्तं तदेवाहथोवा पवज्जमाणा असंखगुणिया पवनयजहण्णा । उक्कोसप्नु य पवन्ना होति विसेसाहिया तत्तो ॥४४॥
आभिनिबोधिकस्य "जहन्नेणं एको वा, दो वा, तिन्नि वा; उक्कोसेणं असंखेजा" इत्येवं प्रतिपद्यमानकाः प्रोच्यन्ते ते सर्वस्तोकाः । तेभ्यो जघन्यपदवर्तिनः पूर्वप्रतिपन्नास्तेऽसंख्यातगुणाः, चिरकालसंकलितत्वात् , प्रतिपद्यमानकानां तु विवक्षितकसमयमात्रभावादिति । उत्कृष्टपदवर्तिनस्तु पूर्वप्रतिपन्नास्तेभ्योऽपि विशेषाधिका इति ॥ ४४१ ॥
प्रकारान्तरमप्यल्प-बहुत्वे दर्शयति
अहवा मइनाणीणं सेसयनाणीहिं नाणरहिएहिं । कज्जं सहोभएहि य अहवा गच्चाइभेएण ॥ ४४२ ॥
अथवा मतिज्ञानिनां शेषज्ञानिभिः सहाल्प-बहुत्वं प्रथमं वाच्यम् , यथा- 'मइनाणी सेसाणं जीवाणमणतभागम्मि' इति । ततो द्वितीयस्थाने 'नाणरहिएहि' इति, ज्ञानानि- व्याख्यानादिह मतिज्ञानादन्यानि गृह्यन्ते, तै रहिता वियुक्ताः पूर्वप्रतिपन्न-प्रतिपद्यमानकमतिज्ञानिन एव केवला इत्यर्थः, तैः सहितं मतिज्ञानिनामल्प-बहुत्वं स्वस्थान एव वक्तव्यम्, यथा 'थोवा पवजमाणा असंखगुणिया पवनयजहण्णा' इत्यादि । ततस्तृतीयस्थाने उभयैः शेषज्ञानिभिश्च समुदितैः सहाऽल्प-बहुत्वं तेषां कर्तव्यं, तद्यथा- 'सबथोवा मणपज्जवनाणी, ओहिनाणी असंखेज्जगुणा, मइनाणी सुयनाणी य दोवि सटाणे तुल्ला मज्झिल्लेहितो विसेसाहिया, केवलनाणी अणतगुणा' । एवं पूर्वप्रतिपन्न-प्रतिपद्यमानकविभागेनाऽप्यल्प-बहुत्वमिह स्वधियाऽभ्यूह्यमिति । अथवा गत्यादिभेदेन तत् कार्यम् , यथा-सर्वस्तोका मतिज्ञानिनो मनुष्याः, नारका असंख्यातगुणाः, ततस्तियश्चः, ततो देवा इति । एवं संभवतः सर्वत्र वाच्यमिति ॥ ४४२ ॥
नेहार्थतो विशेषो भागाप-बहोस्तेन तस्यैव । प्रतिपद्यमानक-प्रतिपनकानामल्पबहु (स्व) युक्तम् ॥ ४४० ॥ २ स्तोकाः प्रपद्यमाना असंख्यगुणिताः प्रपन्नकजघन्याः । उत्कृष्टतश्च प्रपन्ना भवन्ति विशेषाधिकारततः ॥ ४४१॥ ३ जघन्येनको वा, द्वी वा, अयो वा; उत्कृष्टतोऽसंख्येयाः। ४ अथवा मतिज्ञानिना शेषज्ञानिभिज्ञानरहितैः । कार्य सहोभयैश्वाधवा गत्यादिभेदेन ॥ ४४२ ॥ ५ प.छ. 'वक्तव्यम्।
FO॥२४८॥ ६ गाथा ४३८ । ७ गाथा ४४१ । ८ सर्वस्तोका मनःपयर्वज्ञानिनः, अवधिज्ञानिनोऽ-संख्येयगुणाः, मतिज्ञानिनः श्रुतज्ञानिनश्च द्वावपि स्वस्थाने तुल्या मध्यमाभ्यां विशेषाधिकाः,केवलज्ञानिनोऽनन्तगुणाः। ९ घ.छ. 'विकल्पना' ।
For Personal and Private Use Only