________________
विशेषा
बृहदत्तिः ।
॥२४७॥
SERIODOOOKS
अथाऽन्तरद्वारमाश्रित्याह
ऐगस्स जहन्नेणं अंतरमन्तोमुहुत्तमुक्कोसं । पोग्गलपरिअट्टद्धं देसूणं दोसबहुलस्स ॥ ४३७ ।।
इह कश्चिज्जीवः सम्यक्त्वसहितं मतिज्ञानमवाप्य प्रतिपत्य चान्तर्मुहूर्त मिथ्यात्वे स्थित्वा यदि पुनरपि सम्यक्त्वसहितं तदेव प्रामोति, तदेतद् मतिज्ञानस्य जघन्यमन्तर्मुहूर्तमन्तरं प्राप्तिविरहकालरूपं भवति । आशातनादिदोपबहुलस्य तु जीवस्य सम्यक्त्वात् प्रतिपतितस्य देशोनपुद्गलपरावर्तार्धरूपमुत्कृष्टमन्तरं भवति, एतावता कालेन पुनरपि सम्यक्त्वा-ऽऽभिनिवाधिकलाभात् । इत्येकजीवस्योक्तमन्तरम् ॥ ४३७ ॥
अथ नानाजीवानां तदभिधित्सुः, भागद्वारं च विभणिपुराह
जैमसुन्नं तेहिं तओ नाणाजीवाणमन्तरं नत्थि । मइनाणी सेसाणं जीवाणमणन्तभागम्मि ॥ ४३८ ॥
यद् यस्मात् तैराभिनिबोधिकज्ञानिभिरशून्यं सर्वदैव नारकादिगतिचतुष्टयान्वितं त्रिभुवनमिदम्, ततस्तस्माद् नानाजीवानाश्रित्य नास्ति मतिज्ञानस्याऽन्तरकालः । तथा, मतिज्ञानिनः शेषज्ञानवतां जीवानामनन्ततमे भागे वर्तन्ते, शेषज्ञानिनो हि केवलिसहितत्वादनन्ताः, आभिनिवोधिकज्ञानिनस्तु सर्वलोकेऽप्यसंख्याता एवेति भावः ॥ इति गाथाद्वयार्थः ॥ ४३८ ॥
अथ भावद्वारम् , अल्प-बहुत्वद्वारं चाभिधित्सुराह
भावे खओवसमिए मइनाणं नत्थि सेसभावेसु । थोवा मइनाणविऊ सेसा जीवा अणंतगुणा ।। ४३९ ॥
मतिज्ञानावरणे हि कर्मण्युदीणे क्षीणे, अनुदीर्णे तूपशान्ते मतिज्ञानमुपजायते, अतः क्षायोपशमिक एव भावे तद् वर्तते, न तु शेषेष्वौदायिक-क्षायिकादिभावेष्विति । मतिज्ञानेन विदन्तीति मतिज्ञानविदः स्तोकाः, शेषज्ञानयुक्तास्तु सिद्ध केवल्यादयो जीवा अनन्तगुणा इति ।। ४३९ ॥
एवमपि तावदल्प-बहुत्वं भवति, केवलमिहैवमुच्यमाने भागा-ऽल्पबहुत्वदारयोरर्थतः परमार्थतो न कश्चिद् विशेषो भेदो दर्शितो भवति । तेन तस्यैवाभिनिबोधिकस्य पूर्वप्रतिपन्न-प्रतिपद्यमानकानाश्रित्याऽल्प-बहुत्वं वक्तुमुचितम् , पौनरुक्त्याभावादिति । एतदेवाह
१ एकस्य जघन्येनाऽन्तरमन्तर्मुहूर्तमुत्कृष्टम् । पुद्गलपरावधि देशोनं दोषबहुलस्य ॥ ४३०॥ २ घ.छ. 'रियहद्धते दें। ३ प.छ. यदा पु' । । यदशून्यं तैस्ततो नानाजीवानामन्तरं नास्ति । मतिज्ञानिनः शेषाणां जीवानामनन्तभागे ॥ ४३८ । ५ भावे क्षायोपशामिके मतिज्ञानं नास्ति शेषभावेषु । स्तोका मतिज्ञानविदः शेषा जीवा अनन्तगुणाः ॥ ४३९॥
||२४७||
Jain Educatoria internate
For Personal and Private Use Only
HOM
sanelbrary.org