________________
विशेषा.
॥२३८॥
अण्णारंभे अण्णं कह दीसइ, जह घडो पडारंभे ?। सिवकादओ न घडओ किह दीसइ सो तदहाए ? ॥४२१॥
इह 'नारंभे च्चिय दीसई' इत्यत्र भवतोऽयमभिप्रायो यदुत-मृच्चक्र-चीवर-कुम्भकारादिसामग्याः प्रथमेऽपि प्रवृत्तिसमये घटः कि नोपलभ्यते ?, अनुपलम्भाचाऽयमसंस्तत्र पश्चादुत्पद्यते । एतच्चायुक्तमेव, यतो न प्रथमे प्रारम्भसमये घटः प्रारब्धः, किन्तु चक्रमस्तकमृत्पिण्डारोपणादीन्येवाऽऽरब्धानि । अन्यारम्भे चाऽन्यत् कथं दृश्यते ? न दृश्यत एवेत्यर्थः, यथा पटारम्भे घटः । यदुक्तम्- 'ने सिवादद्धाए' इतिः तत्राह- "सिवकादओ इत्यादि ' शिवकादिकाले घटो न दृश्यत इत्युक्तम् , तदेतद् युक्तमेव, यतो शिवकादयो घटो न भवन्ति । अतो यत एव शिवकादिकालोऽसौ, अत एव तददायां तत्काले कथमसौ घटो दृश्यताम् ?, अन्यारम्भकालेऽन्यस्य दर्शनानुपपवेरिति ॥ ४२१॥
यदुक्तम्- 'दीसइ तदंते' तत्राह
अन्ति च्चिय आरहो जइ दीसइ तम्मि चेव को दोसो ?। अकयं व संपइ गए किह कीरइ, किह व एसम्मि॥४२२॥
अन्त्य एव क्रियाक्षण आरब्धो घटो यदि तस्मिन्नेव दृश्यते, तर्हि को दोषः - न कश्चिदित्यर्थः । अतः किमुच्यते- 'यतोऽन्त्यसमय एवोपलभ्यते, नाऽन्यत्र, ततोऽयं पूर्वस्मिन्नेव क्रियत इति । स हि पूर्व प्रथमादिक्रियाक्षणेषु नारब्धः, न च दृश्यते, अन्त्ये तु क्रियाक्षणे प्रारब्धः, दृश्यते च । स च तस्मिन् क्रियासमये क्रियमाणः कृत एव, समयस्य निरंशत्वात् । यच्च कृतं तत् सदेव । ततः सदेव क्रियते नासत् , यच्च सत् तदुपलभ्यत एवेति स्थितम् ।
अथ यस्मिन् समये क्रियमाणं तस्मिन्नेव कृतं नेष्यते, तत्राह- 'अकयं वेत्यादि' अकृतं वा संपतिसमये क्रियमाणसमये यदीष्यते, तर्हि तद्गतेऽतीते समये कथं क्रियतां, तस्य विनष्टत्वेनाऽसत्त्वात् । । कथं वा एष्यति भविष्यत्यनन्तरागामिनि समये क्रियताम् , तस्याऽप्यनुत्पन्नत्वेनाऽसत्त्वादेव।
अथ व्यवहारवादी ब्रूयात्-क्रियासमयः सर्वोऽपि क्रियमाणकालः । तत्र च क्रियमाणं वस्तु नास्त्येव । उपरतायां तु क्रियायां योऽनन्तरसमयः स कृतकालः, तत्रैव कार्यनिष्पत्तेः । अतः कृतमेव कृतमुच्यते, न क्रियमाणमिति । साध्वेतत, किन्त्विदं प्रष्टव्योऽसि-किं भवतः क्रियया कार्य क्रियते, अक्रियया वा! । यदि क्रियया, तर्हि कथमियमन्यत्र, कार्य त्वन्यत्रेति । न हि 'खदिरे च्छेदनक्रिया,
, अन्यारम्भेऽन्यत् कर्थ रश्यते यथा घटः पटारम्भे । शिवकादयो न घटका कर्थ दृश्यते स तदवायाम् ? ॥ ४२१॥ २ गाथा ४१७॥ ३ क, 'पि । ४ अन्त्य एवाऽऽरब्धो यदिश्यते तस्मिन्नेव, को दोषः । अकृतं वा संप्रति गते कथं क्रियते, कथं वैष्यति ॥४२२॥ ५ ष. छ. 'ततः'।
MAPN
ARA
२३८॥
For som
e
Use Only