SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥२३७॥ Jain Educationa International अपि च, 'निच्च किरियाइदोसा नणु तुल्ला, असइ कट्टतरगा वा । पुव्वमभूयं च न ते दीसइ किं खरविसाणं पि ॥ २१९ ॥ ननु नित्यकरणादयः सत्कार्यवादे ये दोषाः प्रदत्ताः, तेऽसति कार्येऽसत्कार्यवादेऽपीत्यर्थः, तुल्याः समानाः, तथाहि - अत्रापि शक्यते वक्तुम् - यद्यसत् क्रियते, तर्हि क्रियतां नित्यमेव, असत्त्वाविशेषात् न चैवमेकस्याऽपि कार्यस्य निष्पत्तिर्युज्यतेः खरविषाणकल्पे ser कार्ये मुत्पाद्ये क्रियावैफल्यमित्यादि । किं तुल्या एवाऽसति कार्येऽमी दोषाः १, न, इत्याह- कष्टतरा वा दुष्परिहार्यतरा वा, सोहि कार्यस्य नापि पर्यायविशेषेण करणं संभवत्यपि, लोकेऽपि सतामाकाशादीनां पर्यायविशेषाऽऽधानापेक्षया करणस्य रूढत्वात् । तथाच तत्र वक्तारः समुपलभ्यन्ते- 'आकाशं कुरु, पृष्ठं कुरु, पादौ कुरु' इत्यादि। खरविषाणकल्पे त्वसति कार्ये न केनाऽपि प्रकारेण करणं संभवति । ततः कष्टतरास्तत्राऽमी दोषा इति भावः । यदुक्तम्- 'पुण्वमभूयं च दीसए होतं' इति, तत्राह - 'पुब्वमित्यादि' उत्पत्तेः पूर्व च यद्यभूतं सर्वथाऽविद्यमानं कार्यमुत्पद्यत इतीष्यते, तर्हि ते तव मतेन किं खरविषाणमपि पूर्वमभूतं पश्चादुत्पद्यमानं न दृश्यते, प्रागसत्त्वाविशेषात् १ इति ॥ ४१९ ॥ यदुक्तम्- "दीसइ दीहो य जओ किरियाकालो' इति । तत्राह पैइसम उप्पण्णाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जइ दसिइ किं च कुंभस्स || ४२०॥ समयं समयं प्रत्युत्पन्नानां परस्परविलक्षणानां सुबहूनामसंख्येयानां 'मृत्खनन- संहरण-पिटक - रासभपृष्ठारोपणा-ऽवतारणाSम्भः सेचन-परिमर्दन-पिण्डविधान-भ्रमण चक्रारोपण-शिवक-स्थास कोश- कुशूलादिकार्याणाम्' इति शेषः, यदि दीर्घो द्राघीयान् क्रियाकालो दृश्यते, तर्हि किमत्र हन्त ! कुम्भस्य घटस्याऽऽयातम् । इदमुक्तं भवति प्रतिसमयं भिन्ना एव क्रियाः, भिन्नान्येव च मृत्पिण्डशिवकादीनि कार्याणि, घटस्तु चरमैकक्रियाक्षणमात्रभाव्येव । ततश्च प्रतिसमयभिन्नानामनेककार्याणां यदि दीर्घः क्रियाकालो भवति, तर्हि चरमैकक्रियाक्षणमात्र भाविनि घटे दीर्घक्रियाकालप्रेरणं परस्याऽज्ञतामेव सूचयतीति ।। ४२० ।। यदुक्तम्- 'नारंभे च्चिय दीसइ' इत्यादि । तत्राह १ नित्यक्रियादिदोषा ननु तुल्याः, असति कष्टतरका (रा) वा पूर्वमभूतं च न तव दृश्यते किं खरविषाणमपि ? ॥ ४१९ ॥ २ असत्कार्यवादे । ३ गाथा ४१६ । ४ प्रतिसमयोत्पन्नानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते किं च कुम्भस्य ? ॥ ४२० ॥ For Personal and Private Use Only ५ गाथा ४१७ । बृहद्वृत्तिः । ॥२३७॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy