________________
विशेषा
॥२३६॥
घटादिकार्य भवज्जायमानं दृश्यते । अतः कथमुच्यते- 'सदुत्पद्यते' इति । यस्मिन्नेव समये प्रारभ्यते तस्मिन्नेव निष्पद्यते, अतो निष्पन्नमेव तत् क्रियते, क्रियाकाल-निष्ठाकालयोरभेदादिति चेत् । नैवम् । कुतः ?, इत्याह- 'दीसईत्यादि' दीर्घोऽसंख्येयसामयिको घटादीनामुत्पद्यमानानां क्रियाकालो लगन्नालोक्यते यस्मात् , ततो न यस्मिन्नेव समये घटादि प्रारभ्यते तस्मिन्नेव समये निष्पद्यते, मृदानयन-तस्पिण्डविधान-चक्रारोपण-शिवकादिविधानादिचिरकालेनैव तदुत्पत्तेरिति ॥ ४१६ ॥
भवतु दीर्घक्रियाकालः, कार्य त्वारम्भसमयेऽप्युपलभ्यते, इत्याह
नारंभे च्चिय दीसइ न सिवादद्धाए, दीसइ तदंते । इय न सवणाइकाले नाणं जुत्तं तदंतम्मि ॥४१॥
यदि क्रियाप्रथमसमय एव कार्य निष्पद्यत तदा तत् तत्रैवोपलभ्येत । न चाऽऽरम्भसमय एव तद् दृश्यते, नापि शिवकाधद्धा| यां शिवक-स्थास-कोश-कुशूलादिकाले । क तर्हि दृश्यते , इत्याह- दृश्यते घटादि कार्य तस्य दीर्घक्रियाकालस्याऽन्तः परिसमाप्तिस्तदन्तस्तस्मिन्निति । तस्मात् क्रियाकालपर्यन्त एव तस्य सत्त्वं युज्यते, न तु पूर्वम् , अनुपलभ्यमानत्वात् । यस्मादेवम् , इत्यतो न गुरुसंनिधाने सिद्धान्तश्रवण-चिन्तने-हनादिक्रियाकाले ज्ञानमाभिनिबोधिकं युक्तम् । किन्तु तस्य श्रवणादिक्रियाकालस्याऽन्तस्तदन्तस्तस्मिन्नेव तद् युक्तम् , तत्रैवोपलभ्यमानत्वादिति प्रस्तुतोपयोगः।
तदेवं न क्रियाकाले कार्यमस्ति, अनुपलभ्यमानत्वात् । किन्तु तन्निष्ठाकाल एव तदस्ति, तत्रैवोपलभ्यमानत्वात् । ततो न प्रतिपद्यमानं प्रतिपन्न कार्य, क्रियाकाल एव तस्य प्रतिपद्यमानत्वात् , निष्ठाकाल एव च प्रतिपन्नत्वात् , क्रियाकाल-निष्ठाकालयोश्चाऽत्यन्तं भेदात् । तस्माद् मिथ्यादृष्टिः, अज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते, न सम्यग्दृष्टिः, ज्ञानी च ॥ इति व्यवहारनयः ।। ४१७॥
अत्र निश्चयनयः प्रतिविधानमाह*निच्छइओ नाऽजायं जाय अभावत्तओ खपुष्पं व । अह च अजायं जायइ, जायउ तो खरविसाणं पि॥४१८॥
निश्चये भवो नैश्चयिको नयः प्राह-यथा 'जातं न जायते, कृतघटवत्' इति भवताऽसत्कार्यवादिनाऽभिधीयते, तथा वयमपि सत्कायेवादिनो ब्रूमः-नाऽजातं जायते, “अचोऽचि" इतीकारलोपः, नाऽविद्यमानमुत्पद्यत इति प्रतिज्ञा, अभावत्वात्- अविद्यमानत्वादिति हेतुः, खपुष्पवदिति दृष्टान्तः । अयमपि विपर्ययबोधामाह- अथाऽजातमपि जायते, जायतां ततः खरविषाणमपि, अभावाविशेषादिति ॥४१८॥ ॥२३६।।
नारम्भ एव दृश्यते न शिवाद्यद्धायां, दृश्यते तदन्ते । इति न श्रवणादिकाले ज्ञान युक्तं तदन्तः ॥४१७॥ २ क. घ. छ. 'नी'। ३ घ. छ. 'अथ नि । ४ नैश्चयिको नाजातं जायतेऽभावत्वात् खपुष्पमिव । अथ चाऽजातं जायते, जायतां ततः खरविषाणमपि ॥ १८॥
बासस
न
For Post
ery