________________
विशेषा०
॥२३५||
Jain Educationa Internation
प्रशस्ते तु लेश्यात्रये पञ्चेन्द्रियवदेव ।
सम्यक्त्वद्वारे निश्चय व्यवहारनयाभ्यां विचारः । तत्र व्यवहारनयो मन्यते - मिथ्यादृष्टिरज्ञानी च सम्यक्त्व-ज्ञानयोः प्रतिपद्यमानको भवति, न तु सम्यक्त्व- ज्ञानसहितः । निश्चयनयस्तु ब्रूते - सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते, न तु मिथ्यादृष्टिः, अज्ञानी च । तथाचाऽऽह भाष्यकारः
संम्मत्त-नाणरहियस्स नाणमुप्पज्जइत्ति ववहारो । नेच्छइयनओ भासइ उप्पज्जइ तेहिं सहिअस्स ||४१४ ॥ पोतनयैव व्याख्याता ॥ ४१४ ॥
अत्र तावद् व्यवहारो निश्वयैस्य दूषणमाह
हारमयं जायं न जायए भावओ कयघडो व्व । अहवा कयं पि कज्जइ कज्जउ निच्चं न य समत्ती ॥ ४१५ ॥ यदि हन्त ! 'सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते' इति त्वयाऽभ्युपगम्यते तर्हि जातमपि तत् सम्यक्त्वं ज्ञानं चाऽसौ पुनरप्युत्पादयतीति सामर्थ्यादापन्नम् । न च जातं विद्यमानं पुनरपि जायते - न केनाऽपि ततः क्रियत इत्यर्थः । कुतः, इत्याह- भावतो विद्यमानत्वात् पूर्वनिष्पन्नघटवत् । इत्येतद् व्यवहारनयमतम्, असत्कार्यवादित्वात् तस्य । प्रमाणयति चासौ - यद् विद्यमानं तद् न केनचित् क्रियते, यथा पूर्वनिष्पन्नो घटः, विद्यमाने च सम्यग्दृष्टेः सम्यक्त्व-ज्ञाने, अतो न तत्करणमुपपद्यते । अथ कृतमपि क्रियते, तर्हि क्रियतां नित्यमपि, इति क्रियाऽनुपरमप्रसङ्गः, न चैवं सत्येकस्याऽपि कदापि कार्यस्य परिसमाप्तिः । इति प्रस्तुतस्याऽऽभिनिबोधिकस्यापि प्रतिपत्त्यनवस्थेति ॥ ४१५ ॥
अपि च, यदि कृतमपि क्रियते, तदाऽन्येऽपि दोषाः । के १, इत्याह
" किरियफलं चि पुव्वमभूयं च दीसए होतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥ ४१६॥ यदि 'कृतमपि क्रियते' इत्यभ्युपगम्यते, तर्हि घटादिकार्ये उत्पाद्ये क्रियायाश्चक्रभ्रमणादिकाया वैफल्यं निरर्थकता प्राप्नोति, कार्यस्य प्रागेव सत्त्वात् । किञ्च, अध्यक्षविरोधः सत्कार्यवादे, यतः पूर्वं मृत्पिण्डावस्थायामभूतमविद्यमानं, पश्चात्तु कुम्भकारादिव्यापारे
१ सम्यक्त्व-ज्ञानरहितस्य ज्ञानमुत्पद्यत इति व्यवहारः । नैश्वयिकनयो भाषते उत्पद्यते ताभ्यां सहितस्य ॥ ४१४ ॥ २ अवतरणिकया। ३ क. 'यदू' । ४ व्यवहारमतं जातं न जायते भावतः कृतघट इव । अथवा कृतमपि क्रियते क्रियतां नित्यं न च समाप्तिः ॥ ४१५ ॥ ५ क्रियावैफल्यमेव पूर्वमभूतं च दृश्यते भवत् । दृश्यते दीर्घश्च यतः क्रियाकालो घटादीनाम् ॥ ४१६ ॥ ६क. ग. झ. ' याइवे' ।
For Personal and Private Use Only
बृहद्वाचः॥
॥२३५||
www.jainelibrary.org