SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ROSO बृहदत्तिः । PRESENSEENRAPAR सम्यक्त्वसहचरितचारित्रलाभे तु मतिसहचरितं मनःपर्यायज्ञानं नोत्पद्यत एव, अत एव वचनात, अन्यथाऽवधिज्ञानीव मनःपर्यायज्ञान्यपि विशेषा० निश्चयनयमतेन प्रतिपद्यमानकः स्यादिति । आहारकद्वारे, अनाहारकाः केचिद् देवादयः पूर्वभवाद् गृहीतसम्यक्त्वा मनुष्यादिपुत्पद्यमाना मतेः पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, तथाविधविशुद्धयभावात् । संज्ञाद्वारे, असंज्ञिनो विकलेन्द्रियवद् भावनीयाः। उपयो॥२३४॥ गद्वारे, अनाकारोपयोगिनः कोचित् पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात् , तदुत्पत्तेश्चाऽनाकारोपयोगे प्रतिषिद्धत्वादिति । उक्तशेषास्तु- गतिद्वारे नारकादयः, इन्द्रियद्वारे तु पञ्चेन्द्रियाः, कायारे तु बसकायिकाः, इत्येवमादयो जातिमपेक्ष्य पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः- कदाचिद् भवन्ति, कदाचिद् नेति । अतिव्याप्तिनिषेधार्थमाह- 'भयणा पुव्वपवना इत्यादि' कषायद्वारेऽकषायाः, वेदद्वारे त्ववेदका भजनया पूर्वप्रतिपन्न व भवन्ति, छद्मस्थाः पूर्वप्रतिपन्ना मतेर्भवन्ति, न तु केवालनः, प्रतिपद्यमानकास्त्वमी न भवन्त्येव, पूर्वप्रतिपन्नमतिज्ञानानामेव क्षपकोपशमणिप्रतिपत्तेः॥ इति गाथाद्वयार्थः ।। ४१२ ॥ ४१३ ॥ तदेवं संक्षेपतो गत्यादिद्वारेषु भाष्यकृता मतिज्ञानस्य कृता सत्पदमरूपणा । अथ विनेयानुग्रहार्थं किश्चिद् विस्तरतोऽप्यसौ विधीयते-तत्र मतिज्ञानं किमस्ति, न वा । यद्यस्ति, क तत् ? । गत्यादिस्थानेषु । तत्र नारक-तिर्यग-नरा-ऽमरभेदाद् गतिश्चतुर्धा । तत्र चतुर्विधायामपि गतौ मतिज्ञानस्य पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भाज्याः- विवक्षितकाले कदाचिद् भवन्ति, कदाचित्तु नेत्यर्थः । आभिनिवोधिकमतिपत्तिप्रथमसमये प्रतिपद्यमानका उच्यन्ते, द्वितीयादिसमयेषु तु पूर्वप्रतिपन्ना इत्यनयोविशेषः। इन्द्रियद्वारे-एकेन्द्रियेभयाभावः सैद्धान्तिकमतेन । कार्मिकग्रन्थिकास्तु-लब्धिपर्याप्तवादरपृथिवी-अब्-वनस्पतीन् करणापर्यासान् पूर्वप्रपन्नानिच्छन्ति, सास्वादनस्य तेषूत्पत्तेः । विकलन्द्रियास्तूभयमतेनापि करणापर्याप्ताः सास्वादनमेव पूर्वभवायातमङ्गीकृत्य पूर्वप्रतिपन्ना लभ्यन्ते, न तु प्रतिपद्यमानकाः, पञ्चेन्द्रियास्तु सामान्येन पूर्वपतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः। कायद्वारे- पृथिवी-अप्-तेजो-वायु-वनस्पति-त्रसकायभेदात् पोढा कायः । तत्राऽऽद्यकायपञ्चके उभयाभावः । त्रसकाये तु पञ्चेन्द्रियवद् वाच्यम् । योगद्वारे-- काय-वाङ्-मनोभेदात् त्रिधा योगः, स एष त्रिविधोऽपि समुदितो येषामस्ति तेषां पञ्चेन्द्रियवद् P वाच्यम् , मनोरहितवाग्योगिनां विकलेन्द्रियवत् , केवलकाययोगिनां त्वेकेन्द्रियवदिति । वेदद्वारे-स्त्री-पुं-नपुंसकभेदात् त्रिविधेऽपि वेदे पञ्चेन्द्रियवद् भावनीयम् । कषायद्वारे तु चतुर्खनन्तानुवन्धिषु सास्वादनमङ्गीकृत्य पूर्वप्रतिपन्नो लभ्यते, न प्रतिपद्यमानकः, शेषेषु द्वादशसु कषायेषु पश्चेन्द्रियवदेव । लेश्याद्वारे- भावलेश्यामङ्गीकृत्य कृष्णादिकासु तिसृष्वप्रशस्तलेश्यासु पूर्वप्रतिपन्नाः संभवन्ति, न वितरे; १ क. 'रेत्र। ॥ ३४॥ For eso Po se Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy