SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ | शून्यः, न तत्र मतिज्ञानस्य प्रतिपद्यमानकः, नापि पूर्व प्रतिपन्नः संभवतीत्यर्थः "उभयाभावो एगिदिएसु सम्मत्तलद्धीए" इति वचनाविशेषादिति । कः पुनरेकेन्द्रियजातीयः, इति चेत् । उच्यते- इन्द्रियद्वारे तावदेकेन्द्रिय एव, कायद्वारे पृथिवी-अप-तेजो-वायु-वनस्पतयः, बहटत्तिः । सूक्ष्मद्वारे तु मूक्ष्म इत्यादि । तथा, सम्यग्-मिथ्यादृष्टिरपि सम्यक्त्वद्वारे मतिज्ञानशून्यः । “ सम्मा-मिच्छट्ठिी णं भंते ! किं नाणी, ॥२३३॥ अन्नाणी?। गोयमा ! नो नाणी, अन्नाणी" इत्यादिवचनादिति । यश्च कापि द्वारे सर्वज्ञः केवली संभवति, सोऽपि तच्छ्न्य एव; तद्यथा- गतिद्वारे सिद्धिगतौ सिद्धः, इन्द्रियद्वारेऽतीन्द्रियः, कायद्वारेऽकायः, योगद्वारेऽयोगः, लेश्याद्वारेऽलेश्यः, ज्ञानद्वारे केवलज्ञानी, दर्शनद्वारे केवलदर्शनी; तथा, संयम-परीत्त-पर्याप्त मूक्ष्म-संज्ञि-भव्यद्वारेषु यथासंख्यं नोसंयत-नोपरीत्त-नोपर्याप्त-नोमूक्ष्म-नोसंज्ञि-नोभव्या इति । एते सर्वेऽपि सर्वज्ञत्वाद् मतिज्ञानशून्याः, छद्मस्थस्यैव तत्संभवादिति भावः । तथा, परीत्त-भव्य-चरमद्वारेष्वपरीत्ता-ऽभव्या-ऽचरमा अपि मिथ्यादृष्टित्वाद् मतिज्ञानशून्याः। तदेवमेते सर्वे सर्वदैव मतिज्ञानशून्या मन्तव्याः, उभयाभावात् ॥ इति गाथार्थः ॥ ४११ ॥ अथ गत्यादिद्वारेष्वेव पूर्वप्रतिपन्न प्रतिपद्यमानकचिन्तां कुर्वन्नाहवियला अविसुद्धलेसा मणपज्जवणाणिणो अणाहारा । असण्णी अणगारोवओगिणो पुव्वपडिवन्ना ॥४१२॥ सेसा पुव्वपवण्णा नियमा पडिवजमाणया भइया । भयणा पुव्वपवण्णा अकसाया ऽवेयया होंति॥४१३॥ विकला द्वि-त्रि-चतुरिन्द्रियलक्षणा विकलेन्द्रियाः, तथाऽविशुद्धलेश्या भावलेश्यामङ्गीकृत्य कृष्ण-नील-कापोतलेश्यावृत्तयः, तथा । मनःपर्यायज्ञानिनः, अनाहारकाः, असंज्ञिनः, अनाकारोपयुक्ताः एते सर्वेऽपि मतिज्ञानस्य यदि भवन्ति तदा पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः; तथाहि- इन्द्रियद्वारे केचिद् विकलेन्द्रिया ये सास्वादनसम्यक्त्वेन सह पूर्वभवादागच्छन्ति, तेषां पूर्वप्रतिपत्तिमङ्गीकृत्य स्याद् मतिज्ञानम् , प्रतिपद्यमानकास्त्वस्य विकलेन्द्रियाः सर्वेऽपि न भवन्त्येव, तथाविधविशुद्ध्यभावात् । तथा, लेश्याद्वारे विशुद्धलेश्या अपि पूर्वप्रतिपन्नाः केचिद् भवन्ति, न तु प्रतिपद्यमानकाः, विशुद्धभावलेश्यानामेव तत्पतिपत्तेः । ज्ञानद्वारे मनःपर्यायज्ञानिनः सर्वेऽपि पूर्वप्रतिपन्ना भवन्त्येव, न तु प्रतिपद्यमानकाः, सम्यक्त्वसहचरितप्राप्तमतिज्ञानस्यैव पश्चादप्रमत्तसंयतावस्थायां मनःपर्यायज्ञानोत्पत्तेः उभयाभाव एकेन्द्रियेषु सम्यक्त्वलब्धौ। २ घ. छ. 'ते- एकेन्द्रि'। ३ घ. छ. 'म्यग्द्वा' । ४ सम्यग्-मिथ्यादृष्टयो भगवन् ! किं ज्ञानिनः, अज्ञानिनः । गौतम ! नो ज्ञानिनः, अज्ञानिनः ।। ५ विकला अविशुद्धलेश्या मनःपर्यायज्ञानिनोऽनाहाराः । भसंजिनोऽनाकारोपयोगिनः पूर्वप्रतिपन्नाः ॥ १२॥ २३३॥ घोषाः पूर्वप्रपन्ना नियमात् प्रतिपद्यमानका भाज्याः। भजना पूर्वप्रपन्ना अकपाया भवेदका भवन्ति ॥ १३॥ Jain Education Internatio For Donald Use Only www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy