SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥२३॥ देतावदेव ज्ञेयमस्ति, नान्यदिति । इह क्षेत्र-कालौ सामान्येन द्रव्यान्तर्गतावेव, केवलं भेदेन रूढत्वात् पृथगुपादानमवसेयमिति ॥४०४॥ आदेशस्य व्याख्यानान्तरमाह आएसो त्ति व सुत्तं सुउवलद्धेसु तस्स मइनाणं । पसरइ तब्भावणया विणा वि सुत्तानुसारेण ॥४०५|| अथवाऽऽदेशव सूत्रमुच्यते, तेन सूत्रादेशेन सूत्रोपलब्धेष्वर्थेषु तस्य मतिज्ञानिनः सर्वद्रव्यादिविषयं मतिज्ञानं प्रसरति । ननु श्रुतोपलब्धेष्वर्थेषु यज्ज्ञानं तच्छ्रतमेव भवति, कथं मतिज्ञानम् ?, इत्याह- 'तब्भावणया इत्यादि' तद्भावनया श्रुतोपयोगमन्तरेण तद्वासनामात्रत एव यद् द्रव्यादिषु प्रवर्तते, तत् सूत्रादेशेन मतिज्ञानमिति भावः । एतच्च पूर्वमपि 'पुन्वं सुयपरिकम्मियमइस्स जं संपर्य सुयाईय' इत्यादिप्रक्रमे प्रोक्तमेव ॥ इति गाथाचतुष्टयार्थः ॥ ४०५॥ तदेवं तत्व-भेद-पर्यायैर्मतिज्ञानं व्याख्याय, विषयं च द्रव्यादिकमस्य निरूप्य, सांप्रतमिदमेव सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्विचारयितुमाह संतपयपरूपणया दव्वपमाणं च खित्त-फुसणा य । कालो य अंतरं भाग भाव.अप्पा-बहुं चेव ॥ ४०६ ॥ सच्च तत् पदं च सत्पदं तस्य प्ररूपणं सत्पदमरूपणं गत्यादिद्वारेषु विचारणं तद्भावः सत्पदप्ररूपणता- 'कस्मिन् गत्यादिके द्वारे इदं सत् ?' इत्येवं सतो विद्यमानस्याऽऽभिनिबोधिकज्ञानस्य गत्यादिद्वारेषु प्ररूपणा कर्तव्येत्यर्थः । तथा, द्रव्यप्रमाणमिति 'मतिज्ञानिजीवद्रव्याणामेकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्ते, सर्वे वा कियन्तस्ते ?' इत्येवं प्रमाणं वक्तव्यमित्यर्थः। चशब्दः समुच्चये। तथा, क्षेत्रमिति 'कियति क्षेत्रे तत् संभवति ?' इत्येवं मतिज्ञानस्य क्षेत्रं वक्तव्यम् । तथा 'कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति ?' इत्येवं स्पर्शना वक्तव्या। यत्रावगाढस्तत् क्षेत्रं, पार्वतोऽपि च स्पर्शना, इत्येवं क्षेत्र-स्पर्शनयोर्विशेषः । चः समुच्चये । तथा, कालः स्थितिलक्षणो मतिज्ञानस्य वाच्यः । चस्तथैव । 'एकदा प्रतिपद्य वियुक्तः कियता कालेन पुनरपि प्रतिपद्यते' इत्येवमन्तरं च तस्य वक्तव्यम् । तथा 'मतिज्ञानिनःशेषज्ञानिना कतिभागे वर्तन्ते ?' इत्येवं भागोऽस्य वक्तव्यः। तथा कस्मिन् भावे मतिज्ञानिनो वर्तन्ते ?' इत्येवं भावो भणनीयः।। तथा, अल्प-बहुत्वं वक्तव्यम् । भागद्वारादपि तल्लब्धमिति चेत् । नैवम् , यतोऽत्र मतिज्ञानिनां स्वस्थान एवं पूर्वप्रतिपन्न प्रतिपद्यमानका १ आदेश इति वा सूत्रं श्रुतोपलब्धेषु तस्य मतिज्ञानम् । प्रसरति तनावनया विनाऽपि सूत्रानुसारेण ॥ ४.५ ॥ २ गाथा १६९ । ३ सत्पदमरूपणता दग्यप्रमाणं च क्षेत्र-स्पशेने च । काकश्चान्तरं भाग-भावा-ऽरूप-बहु (ख) चेव ॥ ४० ॥ SCORPISSISTANTAR २३२॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy