________________
विशेषा०
॥२३०॥
Jain Educations Internat
तत् पुनराभिनिवोधिकज्ञानं चतुर्विधं चतुर्भेदम् । नन्ववग्रहादिभेदेन भेदकथनं प्रागस्य कृतमेव, किमिह पुनरपि भेदोपन्यासः ? । सत्यम्, ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेदं, ज्ञानस्य तु तद्भेदादेव भेदोऽत्राभिधीयते, सूत्रे तथैवोक्तत्वात् । तथा च नन्दिमूत्रम् - ""तं समासओ चउन्विहं पण्णत्तं तं जहा- दव्बओ, खेत्तओ, कालओ, भावओ । तत्थ दव्वओ णं आभिणिवोहियनाणी आदेसेणं सव्वदच्वाई जाण, न पास" इत्यादि । ज्ञेयभेदादपि तत् कथं चतुर्विधम् १, इत्याह- 'जं तदुवउत्तो इत्यादि' यद् यस्मात् कारणात् तेनाऽऽभिनिवोधिकज्ञानेन सर्वद्रव्यादि मुणति इति संबन्धः । कथंभूतम् १, इत्याह- चतुर्विधं चतुर्भेदं द्रव्य-क्षेत्र-काल- भावभेदभिन्नमित्यर्थः । कथंभूतः सन् मुणति १, इत्याह- तस्मिन्नाभिनिवोधिकज्ञाने उपयुक्तस्तदुपयुक्तः । केन १, इत्याह- आदेशेनेति ॥ ४०२ ॥
कोऽयमादेशः १, इत्याह
आसो ति पगारो ओहादेसेण सव्वदव्वाई | धम्मत्थिआइयाइं जाणइ न उ सव्वभेण ॥ ४०३ ॥
sssदेशो नाम ज्ञातव्यवस्तुप्रकारः । स च द्विविधः- सामान्यप्रकारः, विशेषप्रकारथ । तत्रौघादेशेन सामान्यप्रकारेण द्रव्यसामान्येनेत्यर्थः सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति - 'असंख्येयमदेशात्मको लोकव्यापको मूर्तः प्राणिनां पुद्गलानां च गत्युपष्टम्भहेतुर्धर्मास्तिकायः' इत्यादिरूपेण कियत्पर्यायविशिष्टानि षडपि द्रव्याणि सामान्येन मतिज्ञानी जानातीत्यर्थः । अनभिमतप्रकारप्रतिषेधमाहन तु सर्वभेदेन, न सर्वैर्विशेषैर्न सर्वैरपि पर्यायैः केवलिदैर्विशिष्टानि द्रव्याण्यसौ जानातीत्यर्थः, केवलज्ञानगम्यत्वादेव सर्व पर्यायाणामिति भावः ॥ ४०३ ॥
धर्मास्तिकायादिभेदेन कथित सामान्येन द्रव्यम् । अथ क्षेत्रादिस्वरूपं विशेषतः प्राह
"खेत्तं लोगा - लोगं कालं सव्वमहव तिविहं ति । पंचोदइयाईए भावे जं नेयमेव इयं ॥ ४०४ ॥ क्षेत्रमपि लोकालोकस्वरूपं सामान्यादेशेन कियत्पर्यायविशिष्टं सर्वमपि जानाति, न तु विशेषादेशेन सर्वपर्यायैर्विशिष्टमिति । एवं कालमपि सर्वाऽद्धारूपम्, अतीतानागत- वर्तमानभेदतस्त्रिविधं वेत्येक एवार्थः । भावतस्तु सर्वभावानामनन्तभागं जानाति, औदयिकौ पशमिक क्षायिक क्षायिकौपशमिक-पारिणामिकान् वा पञ्च भावान् सामान्येन जानाति, न परतः । कुतः १, इत्याह- यद् यस्मा
१ तत् समासतश्चतुर्विधं प्रज्ञप्तम्, तद्यथा द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत आभिनिबोधिकज्ञानी आदेशेन सर्वद्रव्याणि जानाति न पश्यति । २ आदेश इति प्रकार ओघादेशेन सर्वद्रव्याणि । धर्मास्तिकायादीनि जानाति न तु सर्वभेदेन ॥ ४०३ ॥ ३ घ. छ. 'सर्वैरपि वि' । ४क. 'नि तानि । ५ क्षेत्रं लोका-लोकं कालं सर्वाद्धाऽथवा त्रिविधमिति । पञ्चदयिकादीन् भावान् यद् ज्ञेयमेवेदम् ॥ ४९४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥२३०॥
www.jainelibrary.org