________________
HY
विशेषा० ॥२२९॥
सम्म
याम्। अविशिष्टम् , अविशिष्टतर चेहा-ऽवग्रहयोः; अर्थधारणमप्यवग्रहे-हा-पायेभ्यः सर्वप्रकृष्ट धारणायाम् , इत्येवमवग्रहणादिमात्रे सर्वेषां सामान्ये सत्यप्यर्थविशेष ग्राह्यमाश्रित्य भिन्ना एवावग्रहादयः । स चाऽर्थविशेषोऽमीषां ग्राह्यः प्राग् विस्तरेण दर्शित एव, इत्येवं बृहदा वोत्तरार्धमिदं व्याख्यायते । इदमेव च व्याख्यानं वृद्धसंमतं लक्ष्यते, युक्तथा तु प्राक्तनमपि घटते । इत्यलं विस्तरेणेति ।। ३९९ ।।
कथं पुनरवग्रहादिवचनेन सर्वमप्याभिनिवाधिकं संगृह्यते ?, इत्याह
उग्गहणमोग्गहो त्ति य अविसिट्ठमवग्गहो तयं सव्वं । ईहा जं मइचेट्ठा मइवावारो तयं सव्वं ॥४०॥
अवग्रहणं तावदवग्रह उच्यत इति कृत्वाऽविशिष्टं तत् सर्वमपीहादिभेदभिन्नमाभिनिवोधिकज्ञानमवग्रह एव । इदमुक्तं भवतिअवग्रहणमवग्रह इति व्युत्पत्तिमाश्रित्य सर्वमप्याभिनिवोधिकज्ञानमवग्रहो भवति, यथा ह्यवग्रहः कमप्यर्थमवगृह्णाति, एवमीहाऽपि कमप्यर्थमवगृह्णात्येव, एवमपाय-धारणे अपि इति सर्वमप्याभिनिबोधिकज्ञानं सामान्येनावग्रहः । तथा यद् यस्मात् 'ईह चेष्टायाम् , ईहनमीहा' इति व्युत्पत्तेरीहाऽपि मतेश्चेष्टा मतिचेष्टा वर्तते, तस्मात् सर्वमपि तदाभिनिवोधिकमविशिष्टं मतिव्यापार ईहेत्यर्थः, अवग्रहा-पायधारणानामपि सामान्येन मतिचेष्टारूपत्वादिति भावः ।। ४००॥
तथा__ अवगमणमवाउ त्ति य अत्थावगमो तयं हवइ सव्वं । धरणं च धारण त्ति य तं सव्वं धरणमत्थरस ॥ ४०१॥ __यतश्चावगमनमवायो भण्यते, अतोऽनया व्युत्पत्त्या सर्वमपि तदाभिनिबोधिकमर्थस्याऽवायः, अवग्रहे हा-धारणास्वपि सामान्येनार्थावगमस्य विद्यमानत्वात् । तथा, धरणं धारणा यतो भण्यते, अतोऽनया व्युत्पत्त्या तत् सर्वमप्याभिनिबोधिकमर्थधरणरूपत्वाद्धारणा, अवग्रहे हा ऽपायेष्वप्यविशिष्टस्याऽर्थधरणस्य विद्यमानत्वादिति । संकरप्राप्तिश्चैवमवग्रहादीनां प्राक् 'केवलमत्थविसेसं पई' इत्यादिना 3 परिहतैव ।। इति गाथापचकार्थः ॥ ४०१॥
तदेवं तत्व-भेद-पर्यायराभिनिवाधिकज्ञानं व्याख्याय सांप्रतं तद्विषयनिरूपणार्थमाहतं पुण चउबिहं नेयमेयओ तेण जं तदुवउत्तो । आदेसेणं सव्वं दव्वाइचउबिहं मुणइ ॥ ४०२ ॥ , अवग्रहणमवग्रह इति चाविशिष्टमवग्रहस्तत् सर्वम् । ईहा यद् मतिचेष्टा मतिव्यापारस्तत् सर्वम् ॥ ४०॥
॥२२९॥ २ अवगमनमवाय इति चार्थावगमस्तद् भवति सर्वम् । धरणं च धारणेति च तत् सर्व धरणमर्थस्य ॥ ४० ॥ ३ गाथा ३९९ । । तत् पुनश्चतुर्विधं ज्ञेवभेदतस्तेन यत् तदुपयुक्तः । आदेशेन सर्व द्रव्यादिचतुर्विधं जानाति ॥ ४०२ ॥
For Pesona Pe User