________________
विशेषा०
॥२२८||
Jain Education Internatio
त्वात् । ततश्चात्रेहा-पोहादय आभिनिवोधिकज्ञानस्यैवाऽर्थपर्यायाः, मति प्रज्ञाशब्दौ तु तस्यैव वचनपर्यायौ । अतः सर्वमेवेदं सामान्येनाऽऽभिनिवोधिकज्ञानमेवेति स्थितम् । अथवा, सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा वचनरूपापन्ना वचनपर्यायाः, ये तु तेषामेव वाचकशब्दानामभिधेयार्थस्याऽऽत्मभूता भेदाः, यथा कनकस्य कटक-केयूरादयः, ते सर्वेऽप्यर्थपर्याया भण्यन्ते । ततश्च प्रस्तुतस्याऽऽभिनिवोधिकज्ञानस्य मति-प्रज्ञा-वग्रहे हादयः सर्वेऽपि वाचका ध्वनयो वचनपर्याया एव, तदभिधेयास्त्वाभिनिवोधिकस्याऽऽत्मभूता भेदा अर्थ पर्याया इत्यत्र सेयमिति । इह पूर्व मति- प्रज्ञादिशब्दानां सर्वमप्याभिनिवोधिकज्ञानं वाच्यम्, अवग्रहे हादिशब्दानां तु तदेकदेशा एवाभिधेया इति दर्शितम् ॥ ३९८ ॥
अथाऽवग्रहे-हादिभिरपि शब्दैरन्वर्थवशात् सर्वमप्याभिनिवोधिकमभिधीयते इति दर्शयति—
सव्वं वाऽभिणिबोहियमिहो-ग्गहाइवयणेण संगहियं । केवलमत्थविसेसं पइ भिन्ना उग्गहाईया ॥ ३९९ ॥ 'वा' इत्यथवा, इह सर्वमाभिनिबोधिकज्ञानमवग्रहे- हादिवचनेन संगृह्यते, न पुनस्तदेकदेश एव । तर्ह्यवग्रहादिशब्दानां सर्वेषामेकरूपता प्राप्नोति, एकाभिधेयत्वात्, बहुपुरुषोच्चारितघटाद्येकशब्दवत् इत्याशङ्कयाह- ' केवलमित्यादि ' केवलं नवरमर्थविशेषं प्रत्यवग्रहादयः शब्दा भिन्नाः । इदमुक्तं भवति- अवग्रहशब्दोऽवग्रहलक्षणेनाऽर्थेन सर्वमाभिनिवोधिकं संगृह्णाति, ईहाशब्दस्तु चेष्टालक्षणेन, अपायस्त्ववगमनलक्षणेन, धारणा तु धरणलक्षणेनेत्यादि । ततोऽमुमवग्रहणादिलक्षणमर्थविशेषमात्रमपेक्ष्याऽवग्रहादिशब्दा भिन्नाः, तत्त्वतस्त्वभिधेयं सर्वेषामाभिनिवाधिकज्ञानमेव ।
अथवा, आह- ननुं यदि सर्वमप्याभिनिवोधिकमवग्रहादिवचनेन संगृह्यते, तविग्रहे- हा ऽपायधारणानां तद्भेदानां सर्वेषामपि संकरः प्राप्नोति, अनन्तरवक्ष्यमाणव्युत्पत्तितः प्रत्येकमेषां सर्वेषामप्यवग्रहादिरूपत्वात् ; इत्याशङ्कयाह- 'केवलमत्थविसेसमित्यादि' केवलं नवरमर्थविशेषं प्रत्यवग्रहादयो भिन्नाः । इदमुक्तं भवति - यद्यप्यर्थावग्रहणे-हना ऽवगमन-धारणमात्रस्य सामान्यस्य प्रत्येकं सर्वेष्वपि विद्यमानत्वादेकैकशोऽप्यवग्रहादिशब्देनोच्यन्तेऽवग्रहादयः, तथाऽप्यर्थविशेषमाश्रित्यैते भिन्ना एव; तथाहि - यथाभूतमवग्रहे सामान्यमात्रार्थस्यावग्रहणं, न तथाभूतमेवेहायां, किन्तु विशिष्टं विशिष्टतरं विशिष्टतमं चापाय-धारणयोः; यथाभूता चेहायां मतिचेष्टा, न तथाभूताsन्यत्र, किन्तु विशिष्टा, विशिष्टतरा चावाय धारणयोः, अविशिष्टतरा चाडवग्रहे; अर्थावगमनमप्यपायाद् विशिष्ट धारणा
१ सर्व वाऽऽभिनिबोधिक मिहाऽवग्रहादिवचनेन संगृहीतम् । केवलमर्थविशेषं प्रति भिन्ना अवग्रहादयः ॥ ३९९ ॥ २ घ छ, 'नु स' । ३ . छ. 'शोऽव' ।
For Personal and Private Use Only
बृहद्वृत्ति
॥२२८॥
www.jainelibrary.org