________________
Oli
SAREE
विशेषा.
॥२२७||
ईह चेष्टायाम् , ईहनमीहा- सतामन्वयिना, व्यतिरेकिणां चार्थानां पर्यालोचना । अपोहनमपोहो निश्चयः । विमर्शनं विमर्शः, अपायात् पूर्व ईहायाश्चोत्तरः 'प्रायः शिरःकण्डूयनादयः पुरुषधर्मा इह घटन्ते' इति संप्रत्ययः । तथा, मार्गणमन्वयधर्मान्वेषणं मार्गणा । चशब्दः समुच्चयार्थः। गवेषणं व्यतिरेकधर्मालोचनं गवेषणा । तथा, संज्ञानं संज्ञा, अवग्रहोत्तरकालभावी मतिविशेष एव । स्मरणं स्मृतिः पूर्वाऽनुभूतार्थालम्बनः प्रत्ययः । मननं मतिः कथश्चिदर्थपरिच्छि तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः। तथा, प्रज्ञानं प्रज्ञा, विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितधर्मालोचनरूपा मतिः । सर्वमिदमाभिनिवोधिकम्- कथश्चित् किश्चिद् भेददर्शनेऽपि तत्त्वतः सर्व मतिज्ञानमेवेदमित्यर्थः ।। इति नियुक्तिश्लोकार्थः ॥ ३९६ ॥
अत्रैतद्व्याख्यानाय भाष्यम्
होइ अपोहोऽवाओ सई धिई सब्वमेव मइ-पण्णा । ईहा सेसा, सव्वं इदमाभिणिबोहियं जाण ॥ ३९७ ॥
अपोहस्तावत् किमुच्यते ?, इत्याह- अपोहो भवत्यपायः- योऽयमपोहः स मतिज्ञानतृतीयभेदोऽपायो निश्चय उच्यत इत्यर्थः, स्मृतिः पुनधृतिर्धारणोच्यते, धारणाभेदत्वेनावयवे समुदायोपचारादिति । मति-अज्ञे- मतिप्रज्ञाशब्दाभ्यां सर्वमपि मतिज्ञानमुच्यते । | 'ईहा सेस त्ति' शेषाभिधानानि त्वीहा-विमर्श-मार्गणा-गवेषणा-संज्ञालक्षणानि सर्वाण्यपि ईहा- ईहान्त वीनि द्रष्टव्यानीत्यर्थः । एवं विशेषतः कथश्चिद् भेदसद्भावेऽपि सामान्यतः सर्वमिदमाभिनिवोधिकज्ञानमेव जानीहि, यत ईहा-पोहादयः सर्वेऽप्यमी आभिनिबाधिकज्ञानस्यैव पर्यायाः, केषाश्चिद् वचनपर्यायत्वात् ,केषाश्चित्वर्थपर्यायत्वादिति ॥ ३९७ ।।
एतदेव दर्शयति
मेइ-पन्ना-भिणिबोहिय-बुद्धीओ होंति वयणपज्जाया ।जा उग्गहाइसण्णा ते सव्वे अत्थपज्जाया ॥ ३९८ ॥
इह ये शब्दाः किल सर्व वस्तु संपूर्ण प्रतिपादयन्ति ते वचनरूपा बस्तुनः पर्याया वचनपर्याया उच्यन्ते । ये तु तदेकदेशमभिदधति तेऽथैकदेशप्रतिपादकाः पर्याया अर्थपर्याया उच्यन्ते । तत्र मति-प्रज्ञा-ऽऽभिनिवोधिक-बुद्धयो वचनपर्याया भवन्ति- मति-प्रज्ञा-अभिनिबोधिक-बुद्धिलक्षणाश्चत्वारः शब्दा आभिनिबोधिकज्ञानस्य ज्ञानपञ्चकाद्यभेदलक्षणस्य वचनपर्याया द्रष्टच्या इत्यर्थः, संपूर्णस्याऽपि तस्याऽमीभिः प्रतिपाद्यमानत्वात् । ये त्ववग्रहे-हादिकाः संज्ञाविशेषास्ते सर्वेऽप्यर्थपर्यायाः, तदेकदेशप्रतिपादक
१ क.ग.'म्बनत' । २ भवत्यपोहोऽपायः स्मृतिर्थतिः सर्वमेव मति प्रज्ञे । ईहा शेषाः, सर्वमिदमाभिनिबोधिक जानीहि ॥ ३९७ ॥ ३५.छ. 'यो भे। ४ घ.छ, 'मेव म' । ५ मति-प्रज्ञा-ऽऽभिनिबोधिक-बुद्धयो भवन्ति वचनपर्यायाः । या अवग्रहादिसंज्ञास्ते सर्वेऽर्थपर्यायाः ॥ ३९८ ॥
॥२२७||
Education Internatio
For Personal and Private Use Only
www.jainelibrary.org