________________
विशेषा०
॥२२६॥
Jain Educationa Internatio
धो वि वीससाए न पराघाओ य तेण चउसमओ । अह होज्ज पराघाओं हविज्ज तो सो वि तिसमइओ ॥ ३९४॥ स्कन्धोऽचित्तमहास्कन्धः सोऽपि विस्रसया केवलेन विस्रसापरिणामेन भवति, न तु जीवप्रयोगेण । विस्रसापरिणामश्च विचित्रत्वाद् न पर्यनुयोगमर्हति । किञ्च, न तत्र पराघातोऽस्ति नान्यद्रव्याणामात्मपरिणाममसौ जनयतीत्यर्थः, किन्तु स निजपुद्गलैरेव लोकं पूरयति । ततोऽसौ चतुःसमयो भवति । अथ तत्रापि पराघातो भवेत्, ततः सोऽपि त्रिसामयिको भवेत् त्रिभिरेव समयैर्लोकमा पूरयेदित्यर्थः, न चैवं, सिद्धान्ते चतुःसमयत्वेन तस्योक्तत्वात् । तस्माद् नास्ति तत्र पराघातः, अत्र त्वस्त्यसौ, इति वैषम्यमिति ॥ ३९४॥ अथाऽनादेशप्रस्तावाद परमपि मतमुपन्यस्य दूषयति
ऐगादिसमाइसमये दंड काऊण चउहिं पूरेइ । अन्ने भणंति, तं पिय नागम- जुत्तिक्खमं होइ ॥ ३९५ ॥
अन्ये केचिद् भाषन्ते- आदिसमये एकदिकं दण्डं कृत्वा चतुर्भिः समयैर्लोकमापूरयति । एतदुक्तं भवति - प्रथमसमये तावदूर्ध्वदिशि दण्डं करोति, द्वितीयसमये तंत्र मन्थानं, अधोदिशि पुनर्दण्डं तृतीयसमये ऊर्ध्वदिश्यन्तरालपूरणम्, अधोदिशि तु मन्थानं करोतिः चतुर्थसमये तु तत्राऽप्यन्तरालपूरणात् समस्तमपि लोकं भाषाद्रव्यैः पूरयति । तदेतदपि नागमक्षमम्, कचिदप्यागम एवमश्रवणात् । नापि युक्तिक्षमम् । का ह्यत्र युक्तिः, यदनुश्रेणिगमनस्वभावानां पुद्गलानामेकया दिशा गमनं भवति, नाऽन्यया । वक्तृमुखताल्वादिप्रयत्नप्रेरणमत्र युक्तिरिति चेत् । नैवम्, यतो वक्ता कदाचिद् विश्रेण्यभिमुखस्तदभिमुखानपि भाषापुद्गलान् प्रेरयेत्, ततश्च विदिश्यपि तेषां गमनप्रसङ्गः । किञ्च, एवं सति पटहादिशब्दपुद्गलानां चतुःसमयाऽनियम एव स्यात्, वक्तृप्रयत्नस्य तेष्वभावात् । तस्माद् युक्त्या ssगमविरुद्धत्वादुपेक्षणीयमेवेदम् ।। इति गाथाषोडशकार्थः ॥ ३९५ ॥
-भेद - पर्यायैव्यख्या, तत्र तत्त्वतो भेदतच समसङ्गं निरूपितमाभिनिवोधिकम् । अथ नानादेशजविनेयानुग्रहार्थं तत्पर्यायान
भिधित्सुराह
"ईहा अपोह वीमंसा मग्गणा य गवेसणा । सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ॥ ३९६ ॥
१ स्कन्धोऽपि विवसया न पराघातश्च तेन चतुः समयः । अथ भवेत् पराघातो भवेत् ततः सोऽपि त्रिसामयिकः ॥ ३९४ ॥
२ एकदिकमादिसमये दण्डं कृत्वा चतुर्भिः पूरयति । अन्ये भणन्ति, तदपि च नाऽऽगम-युक्तिक्षमे भवति ॥ ३९५ ॥ ३ष. 'उहि पू' | ४क.ग. 'न्यथा' । ५.ग. 'मुखान' ६ ईहाऽपोहो विमर्शो मार्गणा च गवेषणा । संज्ञा स्मृतिर्मतिः प्रज्ञा सर्वमाभिनियोधिकम् ॥ ३९६ ॥
For Personal and Private Use Only
बृहद्वृतिः ।
॥२२६॥
www.jainelibrary.org