________________
Notics
विशेषा०
॥२२५
A NDAR
दिक्षु मिश्रशब्दश्रवणमुक्तम् । अथवा,व्याख्यानतो विशेषप्रतिपत्तेयदि तव मतं संमतं-ऊर्ध्वा-धोदिग्यवर्तिदण्ड एव मिश्रशब्दश्रवणं,शेषदिक्षु पराघातवासितद्रव्यश्रवणेऽप्यदोषादिति । भवत्वेवम् , 'तो वि' तथापि त्रिभिः समयैः पूर्यते लोको न चतुर्भिः, यतो भाषाद्रव्येषु पराघातोऽस्ति । यदि नाम तेषु पराघातस्ततः किम् ?, इति चेत् । उच्यते- स खलु दण्ड ऊो-धो गच्छन्नविशेषेण चतुर्दिशमपि शब्दप्रायोग्यद्रव्याणि पराहन्ति, वासयित्वा शब्दपरिणामवन्ति करोति, ततस्तानि द्वितीयसमये मन्थानं साधयन्ति, तृतीयसमये तु तदन्तरालपूरणात् पूर्यते लोक इति । एवं त्रिभिः समयैर्लोकपूरणं पामोति ॥ ३९२ ॥
ननु यथा जैनसमुद्धातश्चतुर्भिः समयैर्लोकमापूरयति, तथा भाषाऽपि तैस्तमापूरयिष्यति, को दोषः १, इत्याशङ्कयाह
जइणे न पराघाओ स जीवजोगो य तेण चउसमओ । हेऊ होजाहिं तहिं इच्छा कम्मं सहावो वा ॥३९३॥
इह जैनसमुद्धाते जीवप्रदेशाः स्वरूपेणैव लोकमापूरयन्ति, न पुनस्तत्र कस्याऽपि पराघातोऽस्ति । ततो न द्वितीयसमये मन्थाः, किन्तु कपाट एव भवति । किञ्च, स केवलिसमुद्धातो जीवस्य संबन्धी योगो व्यापारस्तेन लोकव्याप्तिमपेक्ष्याऽयं चत्वारः समयाः, यत्र' चतुःसमयो भवति । यदि नाम जीवयोगस्तथापि कथं तस्य चतुःसमयता ?, इत्याह- तत्र तस्मिन् जीवव्यापारलक्षणे केवलिसमुदाते द्वितीयसमये मध्यभावे हेतुर्भवेत् । कः ?, इत्याह- 'इच्छेत्यादि' तथाहि-तत्रैतच्छक्यते वक्तुम् - केवलज्ञानरूपा येयमिच्छाऽभिप्रायस्तदशाद् गुण-दोषौ पर्यालोच्य केवली द्वितीयसमये मन्थानं न करोति । भवोपग्राहिकर्मवशाद् वा, स्वभावाद् चाऽसौ तदा तं न करोति । ततो द्वितीयसमये कपाट एव, तृतीयसमये मन्थाः, चतुर्थे त्वन्तरालपूरणम्, इति युज्यते जैनसमुद्धाते चतुःसमयता । भाषापुद्गलानां त्वनुश्रेणि गमनं, पैराघातस्वभावश्च लोकव्याप्ती हेतुः, तत्र च प्रथमे समये ऊर्जा-धो दण्डे कृते द्वितीयसमये चतसृष्वपि दिक्ष्वनुश्रेणि गमनं संभवत्येव, इति किं ते मन्थानं न साधयन्ति ?, पराघातो हि ऊर्धा-ऽधोगतदण्डादन्यद्रव्याणां सिद्ध एव, स्वभावास्तु | सर्वत्र सुलभ एव, इत्यशक्यप्रतिषेध एव द्वितीयसमये मथिभावः । ततस्तृतीयसमयेऽन्तरालपूरणात् समस्तलोकपरिपूर्तेस्त्रिसमयतैवान, न चतुःसमयतेति ॥ ३९३ ॥
यद्येवम् , अचित्तमहास्कान्धजीवयोगत्वाभावेऽपि कथं द्वितीयसमये कपाटमात्रस्यैव भावात् प्रज्ञापनादिषु चतुःसमयता प्रोक्ता ?, इत्याशङ्कयाह
BIOGRESSARASTRITESHERPRIMARPAL
॥२२५॥
१ जैने न पराघातः स जीवयोगश्च तेन चतुःसमयः । हेतुर्भवेत् तत्रेच्छा कर्म स्वभावो वा ॥ ३९३ ॥ २ घ. छ. 'रापू' । ३ छ. 'परोपघा'। ४ क.ग.'थमस'।
२९
For Personal and Private Use Only
www.jainelibrary.org