SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥२२४॥ HARSeeleses लोकव्याप्तिः । पञ्चसामयिक्या तु व्याप्तौ चतुर्थसमये लोकसंख्येयभागे भाषासंख्येयभागः, तस्यां तस्य मथिसमयत्वात्, तत्र च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति । पञ्चमसमये तु पञ्चसामयिक्यां व्याप्ती मन्थान्तरालपूरणात् समस्तलोकव्याप्तिरिति ॥ एवं तृतीय-चतुर्थ-पञ्चमसमयेषु भाविता भजना, तद्भावने च व्याख्यातं 'भयणा सेसेसु समएसु' इति । एतच्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षयैवोक्तम्, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एव वर्तन्ते, दण्डादिक्रमेणं तेषां लोकपूरणाऽसंभवादिति॥३९०॥ अथ यदुक्तम्- 'लोगस्स य चरिमंते चरिमंतो होइ भासाए'। तदेतद् भावयन्नाह आपूरियम्मि लोगे दोण्ह वि लोगस्स तह य भासाए । चरिमंते चरिमन्तो चरिमे समम्मि सव्वत्थ ॥३९॥ त्र्यादिसमयैरापूरिते लोके द्वयोरपि लोक-भाषयोश्चरमान्ते चरमान्तो भवति । क ?, इत्याह- चरमे समये । केषु विषये योऽसौ चरमसमयः ?, इत्याह- सर्वत्र सर्वेष्वपि त्र्यादिसमयव्याप्तिपक्षेषु । इदमुक्तं भवति-त्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्भाषया पूरिते लोके तेषामेव व्यादीनां लोकापूरकसमयानां यथाखं योऽसौ चरमः समयस्तत्र लोकस्य चरमः पर्यन्तवर्ती अन्तो भवति- भाषायाश्च चरमः पर्यन्तवर्ती अन्तो भवति, व्यादिसमयानां चरमसमये लोके निष्ठां गते भाषाऽपि निष्ठां याति, न पुनः परतोऽप्यलोके गच्छतीति भावः, जीव-पुद्गलानां तत्र गतेरेवाऽभावादिति । इह च विवक्षयाऽऽदिरप्यन्तो भवति, तव्यवच्छेदार्थ चरमग्रहणं चरमः पर्यन्तवर्ती अन्तो न पुनरादिभूत इत्यर्थ इति ॥ ३९१॥ तदेवं 'कईहिं समएहिं लोगों' इत्यादिनियुक्तिगाथाद्यव्याख्यानेन निराकुलीकृत्य 'जैइणसमुग्धायगईए केई भासंति' इत्यादिना यदादेशान्तरमुक्तं, सोऽनादेश एव, इति ख्यापनार्थम् । तत्र दूषणमाहम ने समुग्धायगईए मीसयसवणं, मयं च दंडम्मि । जइ तो वि तीहि पूरइ समएहिं जओ पराघाओ॥३९२॥ 'न समुग्धायगईए त्ति' जैनसमुद्धातगत्या भाषया लोकपूरणे इष्यमाणे न प्राप्नोति । किम् ?, इत्याह-मिश्रस्य शब्दस्य श्रवणं मिश्रश्रवणं 'सर्वासु दिक्षु' इति शेषः । इदमुक्तं भवति- जैनसमुद्धाते ऊर्ध्वा-ज्योदिग्द्वयगाम्येव प्रथमसमये दण्डो भवति, तद्यदि भाषाद्रव्येष्वप्येवमिष्यते, तर्हि ऊर्ध्वा-धोदिग्य एव मिश्रशब्दश्रवणं प्रामोति, न पूर्व-पश्चिम-दक्षिणोत्तरदिक्षु, तासु विदिक्ष्विव वक्तृनिसृष्टद्रव्याणामगमनेन पराघातवासिततद्र्व्याणामेव श्रवणादिति; अविशेषेण तु भासासमसेढीओ सई जं सुणइ मीसयं सुणई' इत्यनेन १ 'मथ्यन्तरालपू'। २ गाथा ३७९। ३ आपूरिते लोके द्वयोरपि लोकस्य तथा च भाषायाः । चरमान्ते चरमान्तश्चरमे समये सर्वत्र ॥ ३९१ ॥ ४ गाथा ३७८। ५ न समुद्घातगत्या मिश्रकश्रवणं, मतं च दण्डे । यदि ततोऽपि त्रिभिः पूर्यते समपर्यतः पराघातः ॥ ३९२ ॥ ६ गाथा ३५१। ॥२२४॥ For Peso Private Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy