________________
बृहद्वा
द्वितीयसमययोस्तावद् नियमेन सर्वत्र लोकासंख्येयभागे भाषाऽसंख्येयभागलक्षण एव विकल्पः संभवति, नाऽन्यः । त्रिसमयव्याप्तौ हि विशेषा. प्रथमसमये दण्डपदकं भवति, द्वितीयसमये तु पट् मन्थानः संपद्यन्ते । एते च दण्डादयो दैर्येण यद्यपि लोकान्तस्पर्शिनो भवन्ति,
तथापि वक्तृमुखविनिर्गतत्वात् तत्पमाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना एव भवन्ति, चतुरादीनि चाऽङ्गुलानि लोकासंख्येयभा॥२२३॥
गवर्तीन्येव । इति सिद्धस्त्रिसमयव्याप्ती प्रथम द्वितीयसमययोर्लोकासंख्येयभागे भाषाऽसंख्येयभागः। चतुःसमयव्याप्तावप्येतदित्यमवगम्यत एव, प्रथमसमये लोकमध्यमात्र एवं प्रवेशात् : द्वितीयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति । पश्चसमयव्याप्तिपक्षे तु सुबोधमेव, प्रथमसमये भाषाद्रव्याणां विदिशो दिश्येव गमनात् , द्वितीयसमये तु लोकमध्यमात्र एव प्रवेशात् । तस्मात् व्यादिसमयव्याप्ती सर्वत्र
प्रथम-द्वितीयसमययोर्लोकासंख्येयभागे भाषाया असंख्येयभाग एव भवति । 'भयणा सेसेसु समएसु त्ति' उक्तशेषेषु तृाय-चतुर्थ-पञ्चAN मसमयेषु भजना विकल्परूपा बोद्धव्या-कापि लोकासंख्येयभागे स एव भाषाऽसंख्येयभाग एव भवति, कचित् पुनर्लोकस्य संख्ये
यभागे भाषासंख्येयभागः, कापि समस्तलोकव्याप्तिः; तथाहि-त्रिसमयव्याप्तौ तृतीयसमये भाषायाः समस्तलो कव्याप्तिः चतुःसमयव्याप्तितृतीयसमये तु लोकसंख्येयभागे भाषासंख्येयभागः । कथम्, इति चेत् । उच्यते-स्वयम्भूरमणपश्चिमपरतटवर्तिनि लोकान्ते, वसनाडीवहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य प्रथमसमये चतुरङ्गुलादिबाहल्यो रज्जुदी? दण्डस्तिरश्चीनं गत्वा स्वयम्भूरमणपूर्वपरतटवर्तिनि लोकान्ते लगति । ततो द्वितीयसमये तस्माद् दण्डाधिश्चतुर्दशरज्जूच्छूितः पूर्वापरतस्तिरवीनरज्जुविस्तृतः पराघातवासितद्रव्याणां दण्डो निर्गच्छति । लोकमध्ये तु दक्षिणतः, उत्तरतश्च पराघातवासितद्रव्याणामेव चतुरखुलादिवाहल्यं रज्जुविस्ती
दण्डद्वयं विनिर्गत्य स्वयम्भूरमणदक्षिणोत्तरवर्तिलोकान्तयोलगति । एवं च सति चतुरङ्गुलादिबाहल्यं सर्वतोऽपि रज्जुविस्तीर्ण लोकमध्ये वृत्तच्छत्वरं सिद्धं भवति । तृतीयसमये तूर्ध्वाधोव्यवस्थितदण्डाच्चतुर्दिशं प्रसृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति, लोकमध्यव्यवस्थितसर्वतोरज्जुविस्तीर्णच्छत्वरादूर्ध्वाधःप्रसृतः पुनः स एवं त्रसनाडी समस्तामपि पूरयति । एवं च सति सर्वापि वसनाडी ऊर्ध्वाधोव्यवस्थितदण्डमन्यिभावेन तदधिकं च लोकस्य पूरितं भवति । एतच्चैतावत् क्षेत्रं तस्य संख्याततमो भागः। तथा च सति चतुःसामयिक्या व्याप्तेस्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः संख्याततमो भाग इति स्थितम् ॥
पञ्चसामयिक्यास्तु व्याप्तेस्तृतीयसमये लोकाऽसंख्येयभागे भाषाऽसंख्येयभागः। कुतः १, इति चेत् । उच्यते- तस्यां तस्य दण्डसमयत्वात् , तत्र चा संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति । चतुर्थसमये चतुःसामयिक्यां व्याप्ती मेन्थान्तरपूरणात् समस्त-
१क. 'दिश्येवाग' घ. छ. 'दिशो दिशो। वा ग'। २ घ. 'नं । ३ घ.छ. 'मभ्यन्तरालपू।
२२३॥
For Personal and Prevate Une Grey