SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 'ति-पंचगहणमिति' आद्यन्तवर्तिनां त्रयाणां पञ्चानां च समयानां ग्रहणमिह नियुक्तिकृता विहितमेव द्रष्टव्यम् । क सति?, इत्याहविशेषा० चतुःसमयरूपस्य मध्यस्य ग्रहणे कृते सति । ननु किमन्यत्रापि मध्यग्रहणे सत्याद्यन्तग्रहणं कापि दृष्टम् ?, इत्याह- 'तुलाईत्यादि' यथा तुलादीनाम् , आदिशब्दाद् नाराच-यष्ट्यादीनां मध्यस्य ग्रहणे कृते पर्यन्तयोराद्यन्तलक्षणयोग्रहणं पर्यन्तग्रहणं कृतमेव भवति, एवमि॥२२२॥ हाऽपीति । नन्वयं न्यायः काऽप्यागमे दृश्यते, येनैवमुच्यते ?, इत्याह-चित्रा च भगवतः सूत्रस्य गतिः प्रवृत्तिर्दृश्यते ॥ ३८७॥ तथाहि कत्थइ देसग्गहणं कत्थइ घेप्पति निरवसेसाइं । उक्कम-कमजुत्ताइं कारणवसओ निउत्ताई॥ ३८८ ॥ कापि सूत्रे देशस्यैकपक्षलक्षणस्य ग्रहणं, यथाऽत्रैव चतुःसमयलक्षणस्य । कचित् सूत्रे निरवशेषाण्यपि पक्षान्तराणि गृह्यन्ते । अपरं च, कानिचित् सूत्राणि कुतोऽपि कारणवशादुत्क्रम-युक्तानि नियुक्तानि निबद्धानि दृश्यन्ते, कानिचित्तु क्रमयुक्तानीति । एवं EL विचित्रा सूत्रगतिः॥ ३८८॥ अथ प्रस्तुतार्थस्यैव शास्त्रान्तरसंवादकारिणं दृष्टान्तमाह चैउसमयविग्गहे सति महल्लबंधम्मि तिसमओ जहवा ।मोत्तुं ति-पंचसमय तह चउसमओ इह निबद्धो॥३८९॥ यथा वा भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतुःसामयिके विग्रहे त्रिसामयिकोऽयमुपनिबद्धः, तथाऽत्रापि त्रीन, पञ्च च समयान मुक्त्वा चतुःसामयिक एव लोकव्याप्तिपक्ष उपनिबद्ध इत्यदोष इति ॥ ३८९ ॥ यदुक्तम्- 'लोगस्स य कइभाए कइभाओ होइ भासाए' एतद्याचिख्यासुराह होइ असंखेजइमे भागे लोगस्स पढम-बिईएसु । भासाअसंखभागो भयणा सेसेसु समयेसु ॥ ३९ ॥ चतुर्दशरज्जूच्छूितस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव भागो भवति । कदा, इत्याह- प्रथम-द्वितीयसमययोः । इदमुक्तं भवति- त्रिसमयव्याप्तौ, चतुःसमयव्याप्तौ, पञ्चसमयव्याप्तौ च प्रथमसमय कुत्रापि देशमहणं कुत्रापि गृह्यन्ते निरवशेषाणि । उत्कम-क्रमयुक्तानि कारणवशतो नियुक्तानि ॥ ३८८ ॥ २ चतुःसमयविग्रहे सति महाबन्धे निसमयो यथा वा । मोक्तुं त्रि-पञ्चसमयांस्तथा चतुःसमय इह निबद्धो ॥ ३८९ ॥ ३ गाथा ३७८ । । भवस्पसंख्येयतमे भागे लोकस्य प्रथम-द्वितीययोः । भाषाऽसंख्यभागो भजना शेषेषु समयेषु ॥ ३९ ॥ SPARAGZ-15 RPIOOOOOOOK ॥२२२॥ For Des s ert
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy