________________
विशेषा
BN
॥२२॥
'मंथंतरेहिं तईए समये पुन्नेहिं पूरिओ लोगो । चउहि समएहिं पूरइ लोगते भासमाणस्स ॥ ३८५ ॥
यतो लोकमध्यस्थितेन महाप्रयत्नभाषकेण मुक्तानि तानि भाषाद्रव्याणि प्रथमसमय एव षट्सु दिक्षु लोकान्तमाप्नुवन्ति, बृह जीव-सूक्ष्मपुद्गलानामनुश्रेणि गमनात् । ततो द्वितीयसमये त एव षड् दण्डाश्चतुर्दिशमेकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षट् मन्यानो भवन्ति । तृतीयसमये तु मन्थान्तरैः पूरितैः पूरितो भवति सर्वोऽपि लोकः, स्वयम्भूरमणपरतटवर्तिनि लोकान्तेऽलोकस्यात्यन्तं निकटीभूय भाषमाणस्य भाषकस्य त्रसनाड्या बहिर्वा चतसृणां दिशामन्यतमस्यां दिशि भाषमाणस्य तस्येति स्वयमपि द्रष्टव्यम् , चतुर्भिः समयैर्लोकः सर्वोऽपि पूर्यत इति ॥ ३८४ ॥ ३८५ ॥
कथम् १, इत्याह
दिसि विट्ठियस्स पढमोऽतिगमे ते चेव सेसया तिन्नि । विदिसि ट्ठियस्स समया पंचातिगमम्मि जं दोण्णि॥३८६॥
वसनाड्या बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्य प्रथमः समयोऽतिगमे नाडीमध्यप्रवेशे भवति । शेषसमयत्रयभावना तु 'होइ असंखेज्जइमे भागे' इत्यादिवक्ष्यमाणगाथावृत्तौ 'कथमिति चे इत्यादिना वक्ष्यते । लोकान्तेऽपि स्वयंभूर| मणपरतटवर्तिनि चतसृणां दिशामन्यतरस्यां दिशि व्यवस्थितस्य भाषकस्यो;-धोलोकस्खलितत्वाद् भाषाद्रव्याणां प्रथमः समयोऽतिगमे लोकमध्यप्रवेशे, त्रयस्तु समयाः शेषास्तथैव । सनाडीबहिर्विदिग्व्यवस्थितस्य तु भाषकस्य भाषाद्रव्यैः सर्वलोकापूरणे पञ्च समया लगन्तीति विशेषः। कुतः १, इत्याह- 'अतिगमम्मि जं दोण्णि त्ति' विदिशः सकाशाद् भाषाद्रव्याणि लोकनाडीवहिरेव प्रथमे समये दिशि समागच्छन्ति, द्वितीये तु लोकनाडीमध्ये प्रविशन्ति, इत्येवं यस्मादतिगमे नाडीमध्यप्रवेशे द्वौ समयौ लगतः, शेषास्तु त्रयः समयाश्चतुःसमयव्याप्तिवद् द्रष्टव्याः, इत्येवं पञ्च समयाः, सर्वेऽपि च लोकापूरणे प्राप्यन्त इति ॥ ३८६॥
ननु याक्तन्यायेन त्रिभिः, चतुर्भिः, पञ्चभिश्च समयैर्लोको वाग्द्रव्यैः पूर्यते, तर्हि किमिति निर्धार्य नियुक्तिकृता चतुःसमयग्रहणमेव कृतम् १, इत्याशङ्कयाह
चउसमयमझगहणे ति-पंचगहणं तुलाइमज्झस्स । जह गहणे पजंतगहणं चित्ता य सुत्तगई ॥ ३८७ ॥ १ मन्थान्तरैस्तृतीये समये पूर्णैः पूरितो लोकः । चतुर्भिः समयैः पूर्यते लोकान्ते भाषमाणस्य ॥ ३८५ ॥
DO||२२१॥ २ दिशि व्यवस्थितस्य प्रथमोऽतिगमे ते एव शेषकात्रयः । विदिशि स्थितस्य समयाः पञ्चातिगमे यद् द्वौ ॥ ३८६॥ ३ गाथा ३९० । चतुःसमयमध्यमहणे नि-पञ्चमहणं तुलादिमध्यस्य । यथा प्रहणे पर्यन्तमहणं चित्रा च सूत्रगतिः ॥ ३८७ ॥
For Personal and v
e ry