________________
द्रव्यस्कन्धाश्रयभूतक्षेत्रविशेषरूपाणां वर्गणा समुदायस्ता अवगाहनावर्गणाः खल्वसंख्येया गत्वा ततो मन्दप्रयत्नवक्तृनिसृष्टान्यविशेषा० भिन्नानि भाषाद्रव्याणि भिद्यन्ते खण्डीभवन्ति । संख्येयानि च योजनानि गत्वा ध्वंसन्ते शब्दपरिणाम विजहतीत्यर्थः । उक्तं च बृहद्वात्तिः।
| प्रज्ञापनायां भाषापदे- “जाइं अभिन्नाई निसिरइ, ताई असंखेज्जाओ ओगाहणाओ गत्ता भेयमावज्जति, संखिज्जाई जोयणाई गत्ता ॥२२॥
विद्धंसमागच्छंति" । यानि तु महाप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वाद् बहुत्वाचाऽनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्तिः शेषं तु तत्पराघातवासनाविशेषाद् वासितया भाषयोत्पन्नभाषापरिणामद्रव्यसंहतिरूपया । सर्व लोकं निरन्तरमापूरयन्ति “वक्ष्यमाणन्यायेन व्यादिभिः समयैः" इति वाक्यशेषः । उक्तं च- "जाई भिन्नाई निसिरइ ताई अणतगुणपरिवड्ढीए परिवड्ढमाणाई लोयतं फुसंति" ॥३८१ ॥ ३८२ ॥
अथ यदुक्तम्- “चउहि समयेहिं लोगो" इत्यादि । तत्राह
इणसमुग्घायगईए केई भासंति चउहिं समएहिं । पूरइ सयलो लोगो अण्णे उण तीहि समएहि ॥३८॥
रागादिजेतृत्वाजिनः केवली तस्याऽयं जैनः स चासौ समुद्धातश्च जैनसमुद्धातः केवलिसमुद्धात इत्यर्थः, तस्य गतिः प्रवृत्तिः क्रम इति यावत् , तया जैनसमुद्धातगत्या
" दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे च " ॥ १ ॥
इत्यादिग्रन्थेनोक्तेन केवलिसमुद्घातक्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषाद्रव्यैरापूर्यत इति केचिद् भाषन्ते । अयं चाऽनादेश एव, पुरस्ताद् निराकरिष्यमाणत्वादिति । अन्ये पुनत्रिभिः समयैः सर्वोऽपि लोकः पूर्यत इति ब्रुवत इति ॥ ३८३ ॥
किं वामात्रेण ?, न, इत्याह- पंढमसमए च्चिय जओ मुक्काइं जंति छद्दिसिं ताई । बितियसमयम्मि ते च्चिय छ हंडा होति छ म्मंथा॥३८॥
. यान्यभिन्नानि निसृजति, तान्यसंख्येया अवगाहना गत्वा भेदमापद्यन्ते, संख्येयानि योजनानि गत्वा विध्वसमागच्छन्ति । २ यानि भिन्नानि निपजति तान्यनन्तगुणपरिवृतथा परिवर्धमानानि लोकान्तं स्पृशन्ति । गाथा ३७९ ।
॥२२॥ जैनसमुदातगत्या केचिद् भाषन्ते चतुर्भिः समयैः । पूर्यते सकलो लोकोऽन्ये पुनखिभिः समयैः ॥ ३८३ ॥ ५ प्रथमसमय एव यतो मुक्तानि यान्ति पदिक्षु तानि । द्वितीयसमये त एष षद् दण्डा भवन्ति षट् मन्धानः ॥ ३८४ ॥
Jan Educ
a
tio
For Personal and Private Use Only