________________
विशेषा०
बृहदत्तिः ।
॥२१९॥
PARANASEASE
। तुर्दशरज्ज्वात्मकः क्षेत्रलोकोऽत्र परिगृह्यते । स कतिभिः कियत्संख्यैः समयैर्भाषया भाषाद्रव्यौनरन्तरमेव भवति स्पृष्टो व्याप्तः ?, तस्य च लोकस्य कतिभागे कतिभागो भवति भाषाद्रव्याणाम् । इति ॥ ३७८ ।। अत्रोच्यते
चउहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य चरिमंते चरिमंतो होइ भासाए॥३७९॥
चतुर्भिः समयैर्लोको भाषया कस्यचित् संबन्धिन्या निरन्तरमेव पूर्णो भवति । लोकस्य च चरमान्तः पर्यन्तवर्ती भागोऽसंख्येयभाग इत्यर्थः, तस्मिंश्चरमान्तेऽसंख्येयभागे भाषाया अपि समस्तलोकव्यापिन्याश्चरमान्तोऽसंख्येयभागो भवति ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ३७९ ॥
आह- किं सर्वस्याऽपि भाषा लोकं व्यामोति ?, नैतदेवम् , इति दर्शयन्नाह भाष्यकार:
कोई मंदपयत्तो निसिरइ सयलाई सव्वदव्वाइं । अन्नो तिव्वपयत्तो सो मुंचइ भिंदिउं ताई ॥ ३८० ॥
कोऽप्युरःक्षतायुपेतत्वेन मन्दप्रयत्नो वक्तो सर्वाण्यपि भाषाद्रव्याणि प्रथमं सकलानि संपूर्णान्यखण्डानि, अभिन्नानीति यावत्, निसृजति मुश्चति; अन्यस्तु नीरोगतादिगुणयुक्तस्तीव्रप्रयत्नो भवति, स पुनस्तान्यादान-निसर्गप्रयत्नाभ्यां भित्त्वैव खण्डशः कृत्वा सूक्ष्मखण्डीकृत्य मुश्चति ॥ ३८॥
तत्रोभयेषामप्यग्रतो यद् भवति, तदर्शयति
गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाइं । भिजंति धंसेति य संखिज्जे जोअणे गंतुं ॥ ३८१ ॥ भिन्नाई सुहुमयाए अणंतगुणवढिआई लोगंतं । पावंति पूरयंति य भासाए निरंतरं लोगं ॥ ३८२ ॥ अवगाहोऽवगाहना एकैकस्य भाषाद्रव्यस्कन्धस्याऽऽधारभूताऽसंख्येयप्रदेशात्मकक्षेत्रविभागरूपा, तासामवगाहनानामनन्तभाषा
१ चतुर्भिः समयैर्लोको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च चरमान्ते चरमान्तो भवति भाषायाः ॥ ३७९ ॥ १ कोऽपि मन्दप्रयत्नो निसृजति सकलानि सर्वगव्याणि । भन्यस्तीवप्रयत्नः स मुञ्चति भित्त्वा तानि ॥३८॥ ३ घ.छ.'का भा'। ४ क.'यन्नाह-"
गत्वाऽसंख्येया अवगाहनावर्गणा अभिन्नानि । भिद्यन्ते ध्वंसन्ते च संख्येयानि योजनानि गरवा ॥ ३८१ ॥ भिन्नानि सूक्ष्मतयाऽनन्तगुणवर्धितानि लोकान्तम् । प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तरं लोकम् ॥ ३८२ ॥
॥२