________________
विशेषा० ॥२१८॥
बृहद्वत्तिः ।
GRANDIPHOTOSसहरसासनकट
अथान विषमपदव्याख्यानाय भाष्यम्
सच्चा हिया सयामिह संतो मुणओ गुणा पयत्था वा । तबिवरीआ मोसा मीसा जा तदुभयसहावा॥३७६॥
अणहिगया जा तीसु वि सहो च्चिय केवलो असच्चमुसा । एया सभेयलक्खणसोदाहरणा जहा सुत्ते ॥ ३७७॥
इह सद्भयो हिताऽऽराधिका यथावस्थितवस्तुप्रत्यायनफला च सत्या भाषा प्रोच्यते । तत्र के सन्त उच्यन्ते येषां सा हिता, इत्याह-सन्त इह मुनयः साधव उच्यन्ते, तेभ्यो हिता- इह-परलोकाराधकत्वेन मुक्तिप्रापिकेत्यर्थः, अथवा सन्तो मूलोत्तरगुणरूपा गुणाः, पदार्था वा जीवादयः प्रोच्यन्ते, तेभ्योऽसौ हिता- अविपरीतयथावस्थितस्वरूपप्ररूपणेन सत्या । विपरीतस्वरूपा तु मृषाभाषाभिधीयते । मिश्रा तु सत्यामृषा । का ?, इत्याह- या तदुभयस्वभावा सत्या-मृषात्मिकेति । या पुनः सत्या-मृषो-भयात्मकामूक्तलक्षणासु तिसृष्वपि भाषाखनधिकृता तल्लक्षणानन्तर्भाविनी, आमन्त्रणाज्ञापनादिविषयो व्यवहारपतितः शब्द एव केवलः, साऽसत्यमपा चतुर्थी भाषा । एताश्चतस्रोऽपि भाषाः सभेदाः सलक्षणाः सोदाहरणाश्च यथा दशवैकालिकमूत्र नियुक्तयादिकसूत्रे आगमे भणितास्तथा तत्रैव बोद्धव्याः; इह तु भाषाद्रव्यग्रहण-निसर्गादिविचारस्यैव प्रस्तुतत्वात् ॥ इति गाथाद्वयार्थः ॥ ३७६ ॥ ३७७ ॥
औदारिकादिशरीरवान् भाषां गृह्णाति, मुञ्चति चेत्युक्तम् । सा पुनर्मुक्ता सती कियत् क्षेत्रं व्यामोति ? इति वक्तव्यम् । उच्यते- समस्तमपि लोकम् । आह- यद्येवम्. केईहिं समएहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य कइभाए कइभाओ होइ भासाए ॥३७८॥
अथवा द्वादशभ्यो योजनेभ्यः परतो न शृणोति शब्दं मन्दपरिणामत्वाद् द्रव्याणामित्युक्तम् । तत्र किं परतोऽपि शब्दद्रव्याणामागतिरस्ति ? यथा च विषयाभ्यन्तरे नैरन्तर्येण तद्वासनासामर्थ्यम् , एवं बहिरप्यस्ति, उत न ? इति । उच्यते- अस्ति केषांचित् कृत्स्नलोकव्याप्तेः। आह- यद्येवम् , 'कई हिं०' । इत्येवं संबन्धद्वयसमायातेयं गाथा व्याख्यायते- लोक्यत इति लोकश्च
TOON
PARICHODACHOOK
१ सत्या हिता सनया, इह सन्तो मुनयो गुणाः पदार्थाश्च । तद्विपरीता मृषा, मिश्रा या तदुभयस्वभावा ॥३७६ ॥
अनधिकृता या तिसृष्वपि शब्द एव केवलोऽसत्यमृषा । एषा सभेद-लक्षण-सोदाहरणा यथा सूत्र ।। ३७७ ॥ २ कतिभिः समयैलोंको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च कतिभागे कतिभागो भवति भाषायाः ॥ ३०८॥
॥२१॥
For Personal
Use Only