________________
विशेषा
बृहद्वृत्तिः ।
॥३८७||
कथं पुनायते चक्रवर्तिलब्धिर्भव्यानामेव भवति ?, इत्याह
पोग्गलपरियट्टद्धं जं नरदेवंतरं सुए भणियं । तो सो भव्यो, कालो जमयं निव्वाणभावीणं ॥८०५॥
यद् यस्माद् नरदेवाश्चक्रवर्तिनस्तेषामन्तरमपार्धपुद्गलपरावर्तलक्षणं भगवत्यामुक्तम् , यदाह- "नरदेवाणं भंते ! अंतरं कालओ केचिरं होइ ? । गोयमा ! जहण्णेणं साइरेगं सागरोवमं, उक्कोसेणं अवड्ढं पोग्गलपरियट्ट देसूर्ण" इति । तस्मादसौ चक्रवर्ती भव्य एव भवति नाभव्यः, यदस्मादयमपार्धपुद्गलपरावर्तलक्षणोऽन्तरकालो भाविनिर्वाणपदानामेव घटते । अभव्यानां तु भवनपत्यादिभाविदेवानामुत्कृष्टतो वनस्पतिकालस्यैवाऽन्तराभिधानात् । किञ्च, अन्यत्रापि देवेन्द्र-चक्रवर्तित्वादिपदयोग्यकर्मणां बन्धो भव्यानामेवोक्त इति भव्य एव चक्रवर्तीति ।। ८०५॥
तदेवं प्रसङ्गाऽऽयाताः शेषः प्रतिपाद्याऽवधिज्ञानं च सप्रसङ्ग विस्तरतः प्ररूप्योपसंहरन् वक्ष्यमाणसंक्षेपप्ररूपणस्य प्रस्तावना च कर्तुमाह
भणिओऽवहिणो विसओ तहावि तस्संगहं पुणो भणइ । संखेवरुईण हियं अव्यामोहत्थमिटुं च ॥८०६॥
भणितः प्ररूपितः 'ओही खेत्तपरिमाणे संठाणे' इत्यादिना सर्वेणापि पूर्वोक्तग्रन्थेनाऽवधेः स्वरूपाद्यन्वितो विषयो द्रव्य-क्षेत्रादिकः, तथा तत्संग्रहं विषयस्य संक्षेपतरूपणं पुनरपि पणत्यत्रान्तरे देववाचको नन्द्यध्ययनमूत्रकारः । अनेन चेदं सूचितम्-नन्द्यध्ययनमूत्रकारेण प्रथमं विस्तरतोऽवधिज्ञानं प्ररूप्य पर्यन्ते पुनरपि संक्षेपतस्तद्विषयः प्ररूपितः, तद्यथा- "तं समासओ चउब्विहं पन्नत्तं, तं जहा- दव्वओ, खेत्तओ, कालओ, भावओ" इत्यादि । ननु नन्दिसूत्रकारेणापि किमित विषयः पुनरपि प्ररूपितः, पौनरुक्त्यप्रसङ्गात् ?, इत्याशङ्कयाह- 'संखेवेत्यादि' यस्मादतिसंक्षेपरुचीनां हितमिदं संक्षेपभणनम् , अतस्तेषां हितार्थ मन्दमतीनामव्यामोहार्थ चेष्टमेतदिति ।। ८०६॥
१ पुद्गलपरिवर्ता यद् नरदेवाऽन्तरं श्रुते भणितम् । ततः स भव्यः, कालो यदयं निर्वाणभाविनाम् ॥ ८०५॥ २ नरदेवानां भगवन् ! अन्तरं कालतः कियञ्चिरं भवति ।। गौतम ! जघन्येन सातिरेकं सागरोपमम् , उत्कर्षेणाऽपाधै पुलपरिवते देशोनम् । ३ भणितोऽवधेविषयस्तथापि तत्संग्रहं पुनर्भणति । संक्षेपरुचीनां हितमव्यामोहामिष्टं च ॥ ८०६॥ ४ गाथा ५७७ । ५ तत् समासतश्चतुर्विध प्रज्ञप्तम् , तद्यथा-व्यतः, क्षेत्रतः, कालतः, भावतः ।
॥३८७॥
Jan Education Internatio
For Personal and Private Use Only