SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ का विशेषा. बृहद्वत्तिः। ॥३८८॥ AD S तमेव विषयसंग्रहमाहदेव्वाइं अंगुला-वलिसंखेजाईयभागविसयाइं । पेच्छइ चउग्गुणाई जहण्णओ मुत्तिमंताई ॥ ८०७ ॥ उक्कोसं संखाईयलोगपोग्गलसमानिबद्धाइं । पइदव्वं संखाईयपजयाइं च सव्वाइं ॥ ८०८ ॥ जघन्यतो मूर्तिमन्ति द्रव्याण्यवधिज्ञानी पश्यतीति संटङ्कः । कथंभूतानि ?, इत्याह- 'अंगुलेत्यादि' अङ्गुलसंख्यातीतभागविषयाणि, आवलिकासंख्यातीतभागविषयाणि चेत्यर्थः । भावतस्तु प्रतिद्रव्यं चत्वारो गुणा धर्माः पर्याया येषां तानि चतुर्गुणानि पश्यति । इदमुक्तं भवति- जघन्यतोऽवधिज्ञानी द्रव्यतः, क्षेत्रतश्चाङ्गुलासंख्येयभागवर्तीनि मूर्तद्रव्याणि पश्यति, कालतस्त्वेतावद्व्याणामावलिकाऽसंख्येयभागाभ्यन्तरवर्तिनोऽतीतान , अनागतांश्च पर्यायान् पश्यति, भावतस्तु प्रतिद्रव्यं चतुरः पर्यायान् पश्यतीति।। उत्कृष्टतस्तु द्रव्यतः क्षेत्रतश्चाऽसंख्येयलोकाकाशखण्डावगाढानि सर्वाण्यपि मूर्तद्रव्याणि पश्यति । एतानि चैकस्मिन्नेव लोकाकाशेऽवगाहानि प्राप्यन्ते, शेषलोकावगाढानां तु दर्शनं शक्तिमात्रापेक्षयैवोच्यते । कालतस्त्वेषां द्रव्याणामसंख्यातोत्सर्पिण्य-वसर्पिणीसमान्तर्गतानतीता-ऽनागतांश्च पर्यायान् पश्यति । भावतस्त्वेकैकद्रव्यमाश्रित्याऽसंख्येयपर्यायाण्येतानि पश्यति । इह च दर्शनक्रियासामा| न्यमात्रमाश्रित्य 'पश्यति' इत्युक्तम् , विशेषतस्तु जानाति पश्यतीति च सर्वत्र द्रष्टव्यम् ॥ ८०८॥ तदेवं जघन्यत उत्कृष्टतश्च प्राग विस्तरतः प्रोक्तोऽवधिविषयः, इदानीं तु स एव संक्षेपत उक्तः । PIRMIREORGERIOTSSCIRRIPPIRIDIARIERS TAGARATAमरसससससससारपसारपसासारामार ॥ तहणने च सप्रसङ्गमवधिज्ञानं समाप्तमिति ॥ ॥३८८॥ १ व्याण्यङ्गला-ज्वलिसंख्यातीतभागविषयाणि । प्रेक्षते चतुर्गुणानि जघन्यती मूर्तिमन्ति ॥ ८०७॥ उत्कृष्टतः संख्यातीतलोकपुद्गलसमानिबद्धानि । प्रतिद्रव्यं संख्यातीतपर्ययाणि च सर्वाणि ॥ ८०८ ॥ २ घ. छ. 'ताना' । Jan Education Internat For Personal and Private Use Only www.jaineltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy