________________
So8
बृहद्वत्तिः ।
विशेषा०
| ॥३६४||
POOTER
प्रत्येकं पुनस्त्रिधा भवन्ति, तद्यथा- प्रतिपतनशीलानि प्रतिपातीनि-कियन्तं कालं स्थित्वा ततो ध्वंसनस्वभावानीत्यर्थः, तद्विपरीतानि त्वप्रतिपातीनि- आमरणान्तभावनिीत्यर्थः, प्रतिपात्य-प्रतिपात्युभयरूपाणि तु मिश्राणि- कानिचित् प्रतिपातीनि, कानिचिद् नेत्यर्थः। एतानि च मनुष्य-तिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति, न देव-नारकावधाविति ।
____ आह- ननु तीव्र-मन्दद्वारे प्रस्तुते फड्डकावधिखरूपं प्रतिपादयतः प्रक्रमविरोध इति । अत्रोच्यते-प्रायोऽनुगामुका-अतिपातीनि फडकानि तीव्रविशुद्धियुक्तत्वात् तीव्राणि भण्यन्ते, अननुगामि-प्रतिपातीनि त्वविशुद्धत्वाद् मन्दान्युच्यन्ते, मिश्राणि तु मध्यमानि, इत्यर्थतस्तीव्र-मन्दद्वारम् , इत्यदोषः । अपरस्त्वाह- अनुगामुका-अतिपातिफड्डकानां कः परस्परं विशेषः १, अनानुगामुक-प्रतिपाति| फडकानां चान्योन्यं को भेदः? इति । अत्राभिधीयते- अप्रतिपाति फडकमनुगाम्येव भवति, अनुगामुकं त्वप्रतिपाति प्रतिपाति च
भवतीति विशेषः । तथा, प्रतिपाति पतत्येव, पतितमपि च देशान्तरगतस्य कदाचिज्जायते; न चेत्थमनानुगामुकम् । इति नियुक्ति| गाथाद्वयसंक्षेपार्थः ।। ७३८ ॥ ७३९ ।।
विस्तरार्थं तु भाष्यकार एवाह
जालंतरत्थदीवप्पहोवमो फड्डगावही होइ । तिव्वो विमलो मंदो मलीमसो मीसरूवो य ॥ ७४० ॥
अपवरकजालकान्तरस्थप्रदीपप्रभोपमः फडकावधिर्भवति । तत्र च विशुद्धक्षयोपशमजन्यफडकप्रभवोऽवधिविमलः, स च तीव्र उच्यते, अविशुद्धक्षयोपशमप्रवर्तितश्च मलीमसः, स च मन्दोऽभिधीयते । मध्यमक्षयोपशमाविष्कृतफडकसमुत्थस्तु मिश्ररूपस्तीव्र-मन्दखरूप इत्यर्थः । अत एव तीव्र-मन्दद्वारमिदमुच्यते ॥ ७४० ॥ 'एंगफड्डुवओगे' इत्युत्तरार्धं व्याचिख्यासुराह
उवओगं एगेण वि दितो सो फड्डिएहिं सव्वेहिं । उवउज्जइ जुगवं चिय जह समयं दोहिं नयणेहिं ॥ ७४१ ॥ गतार्था ॥ ७४१॥ अथ प्रेर्यमुत्थाप्य परिहरनाह
१ जालान्तरस्थदीपप्रभोपमः फडकावधिर्भवति । तीब्रो विमलो मन्दो मलीमसो मिश्ररूपश्च ॥ ४०॥ २ गाथा .३८ । । उपयोगमेकेनापि ववत् स फडकी सः । उपयुज्यते युगपदेव यथा समकं द्वाभ्यां नयनाभ्याम् ॥ ७४१ ॥
PRINCIPAPER
||३६४॥
For send
senty