________________
विशेषा ॥३६३॥
___ इह स्वरूपेण तावत् समस्तपुद्गलास्तिकायलक्षणानि द्रव्याण्याधारभूतात् स्वक्षेत्रात् 'अनन्तगुणानि' वर्तन्त इति लिङ्गव्यत्ययेनात्रापि योज्यते, एकैकाकाशप्रदेशेऽनन्तस्य परमाणु-ब्यणुकादिद्रव्यस्यावगाहनात् । पर्यवाः पर्यायाः पुनः स्वाश्रयभूताद् द्रव्यादनन्तगुणाः, एककस्य परमाण्वादेरनन्तपर्यायत्वादिति । एवंभूतं क्षेत्रादीनां स्वरूपं वर्तत इति स्वरूपकथनमात्रं तावत् कृतम् । प्रकृतोपयोग्याह-'निययाहारेत्यादि' द्रव्यस्य निजकाधारः क्षेत्रम् , पर्यायाणां तु निजकाधारो द्रव्याणि, तदधीना च तेषां द्रव्य-पर्यायाणां सामान्येन वृद्धिः, हानिश्च भवति । क्षेत्रस्य चतुर्विधायां वृद्धौ हानौ वा द्रव्यस्यापि तथैव ते प्राप्नुतः, द्रव्यस्य द्विविधायां वृद्धौ हानौ वा पर्यायाणामपि तथैव ते युज्यते, इत्येवं यथा परः प्रतिपादयति, तथा वयमपि स्वरूपस्थितिसामान्यचिन्तायां मन्यामहे, नात्र विवाद इति भावः । परं किन्तु 'न उ निययेत्यादि' न तु निजकाधारवशादवधिनिबन्धोऽवधिविषयो वर्धते हीयते वा, यतः परीतः प्रतिनियतोऽसौ यथोक्तस्वरूपेण क्षयोपशमनियमितोऽसौ चित्रक्षयोपशमत्वाच्चित्रोऽनेकरूपो यथा युक्त्या घटते तथैवाऽयं प्रवर्तते, तामुल्लवयाऽन्यथापि च प्रवर्तत इति | नाऽत्रैकान्तः । आज्ञाग्राह्यश्च प्रायेणाऽयम् , इत्याज्ञैवात्र प्रमाणं, किं खेच्छामवृत्तशुष्कतर्कयुक्त्युपन्यासेन । पायोग्रहणाद् यथासंभव युक्तिरपि वाच्या ।। इति गाथानवकार्थः ।। ७३६ ॥ ७३७ ॥
॥गतं चलद्वारम् ।। अथ तीव्र-मन्दद्वारमभिषित्सुराहफैड्डा य असंखेज्जा संखेज्जे यावि एगजीवस्स । एगप्फड्डुवओगे नियमा सव्वत्थ उवउत्तो ॥ ७३८ ॥ फड्डा य आणुगामी अणाणुगामी य मीसया चेव । पडिवाई अपडिवाई मीसा य मणुस्स-तेरिच्छे ॥ ७३९ ॥
अपवरकादिजालकान्तरस्थप्रदीपप्रभानिर्गमस्थानानीवाऽवधिज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानीह फड्डकान्युच्यन्ते । तानि चैकजीवस्य संख्येयानि, असंख्येयान्यपि च भवन्ति । तत्र चैकफड्डकोपयोगे जन्तुर्नियमात् सर्वत्र सर्वैः फडकैरुपयुक्तो भवति, एकोपयोगत्वाज्जीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवदिति । एतानि च फडकानि त्रिधा भवन्ति, तद्यथा- अनुगमनशीलान्यानुगामुकानि- यत्र देशे तिष्ठतोऽवधिमतो जीवस्योत्पन्नानि, ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीत्यर्थः, एतद्विपरीतानि त्वनानुगामुकानि, आनुगामुका-ऽनानुगामुकोभयस्वरूपाणि तु मिश्राणि- कानिचिद् देशान्तरानुयायीनि, कानिचिद् नेत्यर्थः । एतानि च
1 फहकान्यसंख्येवानि संख्येयानि चाप्येकजीवस्य । एकपड्कोपयोगे नियमात सर्वत्रोपयुक्तः ॥ १८ ॥ फडकानि चानुगामीन्यननुगामीनि मिश्राणि चैव । प्रतिपातीन्यप्रतिपातीनि मिश्राणि च मनुष्य-तिर्थक्षु ॥ ३९ ॥
॥३६३॥
aran
For Personal and Prevate Une Grey