SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥३६२॥ 10वसर ननु कथं क्षेत्रस्याऽसंख्येयभागादिवृद्धौ सत्यां तदाधेयद्रव्याणामप्यसंख्येयभागादिवृद्धेन संभवः, कथं वा द्रव्यानन्त्ये द्रव्यस्याऽनन्तभागवृद्धौ जायमानायां पर्यायाणामसंख्येयभागादिवृद्धिः, द्रव्यानन्तगुणवृद्धौ वा पर्यायाणामसंख्यातगुणादिवृद्धिः प्रतिपाद्यते । बृह इदमुक्तं भवति- क्षेत्राधाराणि हि द्रव्याणि, द्रव्याधाराश्च पर्यायाः, ततो यादृश्याधारस्य वृद्धिर्हानिर्वा, तादृश्यवाऽऽधेयस्यापि युक्ता, तत्कथमिह वैचित्र्यम्- क्षेत्रस्य चतुर्विधे वृद्धि-हानी, द्रव्यस्य द्विविधे, पर्यायाणां तु षड्विधे इति ॥ ७३४ ॥ अत्र मूरिराह खेत्ताणुवत्तिणो पोग्गला गुणा पोग्गलाणुवत्ती य । सामण्णा विण्णेया नै उ ओहिन्नाणविसयम्मि ॥७३५॥ क्षेत्रानुवर्तिनः पुद्गलाः परमाणु स्कन्धादयः, गुणांस्तु पर्यायाः पुद्गलानुवर्तिनः, इत्येवमेते सामान्याः सामान्येन विज्ञेयाः कस्य | किल हन्त ! नैतदभिमतम् ? । अनभिमतप्रतिषेधं त्वाह-न त्ववधिज्ञानविषयत्वेनैवमेतेऽभिप्रेताः । इदमत्र हृदयम्- अस्त्येवैतत् सामान्येन, को वै न मन्यते यदुत- सामान्यतः समस्तलोकाकाशस्याऽसंख्येयतमादिके भागे समस्तपुद्गलास्तिकायस्याप्यसंख्येयतमादिक एव भागः स्वरूपेण वर्तते, समग्रपुद्गलास्तिकायस्यानन्ततमादिक भागे समस्ततत्पर्यायराशिरप्यनन्ततमादिभागो वर्तते; अतः क्षेत्रस्याऽसंख्येयादिभागवृद्धि-हान्यो व्यस्यापि तदनुवृत्त्या तथैव वृद्धि-हानी स्याताम् , द्रव्यस्यानन्ततमभागादिवृद्धि-हान्योस्तत्पर्यायाणामपि तदनुवृत्त्या तथैव वृद्धि-हानी भवेताम् ?; परं किन्त्वत्रावधिज्ञानविषयभूतस्य क्षेत्रादेवृद्धि-हानी चिन्तयितुमभिप्रेते, न तु सामान्येन स्वरूपस्थस्य । एवं च विशेषिते ये वृद्धि हानी ते अवधिज्ञानावरणक्षयोपशमाधीनत्वाद् विचित्रे । अतो यथोक्तप्रकारेणैव ते अत्र युक्ते, नान्य| थेति ॥ ७३५॥ एतद्गाथोक्तमेवार्थ प्रपश्चयन्नाह-- दैव्वाइं सखेत्ताओऽणतगुणा पजवा सदव्याओ। निययाहाराहीणा तेसिं वुड्ढी य हाणी य॥ ७३६ ॥ न उ निययाहारवसा अवहिनिबंधो जओ परित्तो सो । चित्तो तहण्णहा वि य आणागब्भो य पाएण ॥७३७॥ १ क. ख. ग. 'दृश्येवाधा' । २ क्षेत्रानुवर्तिनः पुद्गला गुणाः पुद्गलानुवर्तिनश्च । सामान्या विज्ञया न त्ववधिज्ञानविषये ॥७३५॥ ३ क. 'न ओ' घ. छ. 'न य ओ'। ४ क. 'हिविना' । ५क. ग. 'णास्तत्प' । ६ष. छ. 'मस्तपु' । ७ घ. छ. 'दिभागैः स'। ||३६२॥ ८ गब्याणि स्वक्षेत्रादनन्तगुणाः पर्यवाः स्वगव्यात् । निजकाधाराधीना सेषां वृद्धिश्च हानि ॥ ७३६ ॥ न तु निजकाधारवशावधिनिबन्धो यतः परीतः सः । चित्रस्तथाऽन्यथापि चाज्ञागर्भश्च प्रायेण ॥ ७३७ ॥ समापखालाका Jan Education Internat For Personal and Private Use Only www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy