SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ PCS SRO विशेषा. ॥३६१॥ CORRESTERS गताथैव, नवरं 'अणतसहियं ति' अनन्ततमोशो भागोऽनन्तांशस्तेनाधिक द्रव्यं कश्चित् पश्यतीति ॥ ७३२ ।। एतेषां च द्रव्य-क्षेत्र-काल-भावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धावेवाऽपरस्य वृद्धिः, न त्वेकस्य हानावन्यस्य वृद्धि एकस्य हानावेवाऽपरस्य हानिः, न त्वेकस्य वृद्धावपरस्य हानिर्भवति । अपरं च, एकस्य द्रव्यादेर्भागेन वृद्धौ हानौ वा जायमानायामपरस्यापि भागेनैव वृद्धि-हानी प्रायः, न तु गुणकारेण गुणकारेणाप्येकस्य वृद्धि-हान्योः प्रवर्तमानयोरपरस्यापि प्रायस्तेनैव ते प्रवर्तेते, इति दर्शयन्नाह बुड्ढीए चिय वुड्ढी हाणी हाणीए न उ विवज्जासो। भागे भागो गुणणे गुणो य दव्वाइसंजोए ॥ ७३३ ॥ इह वृद्धि-हानी समाश्रित्य द्रव्य-क्षेत्र-काल-भावानां परस्परं संयोगे चिन्त्यमाने एकस्य द्रव्यादेवृद्धावेव तदपरस्य वृद्धिर्जायते, एकस्य हानावेव च तदन्यस्य हानिः प्रवर्तते । 'न उ विवज्जासो तिन तूक्तस्य विपर्यासो विपर्ययो मन्तव्यः- एकस्य द्रव्यादेहानावपरस्य वृद्धिः, तथा, एकस्य द्रव्यादेवृद्धावन्यस्य हानिरित्येवंलक्षणो विपर्ययः कदाचिदपि न भवतीत्यर्थः । अथवा गाथामिदमन्यथा व्याख्यायते, एवकारस्य भिन्नक्रमेण योजनात् , तद्यथा- एकस्य द्रव्यादेवेंदौ तदपरस्य वृद्धिरेव, न तु हानिलक्षणो विपर्यासो भवति 'काले चउण्ह वुड्ढी' इति वचनात् । एकस्मिन् वर्धमानेऽपरस्यावस्थानं तु स्यादपि 'कालो भइयव्वो खेत्तवुड्ढीए' इति वचनात् । तथा, एकस्य द्रव्यादेहींनौ तदपरस्य हानिरेव, न तु वृद्धिलक्षणो विपर्यासः, अवस्थानं तु स्यादपीति । 'भागे भागो त्ति' एकस्य क्षेत्रादेरसंख्याततमादिके भागे वर्धमाने तदपरस्याऽपि भाग एव वर्धते, अवस्था वा भवति, न तु गुणकारेण वृद्धिः। तथा, गुणकारेणाप्येकस्य वृद्धौ जायमानायामपरस्याऽपि तेनैवाऽसौ भवति, अवस्थानं वा जायते, न तु भागेन वृद्धिः । प्रायेण चैतद् द्रष्टव्यम् , क्षेत्रादेर्भागेन वृद्धावपि द्रव्यादेर्गुणकारेण वृद्धिसंभवादिति ॥ ७३३ ॥ ___ अथ परः प्रेरयति__ कह खेत्तअसंखभागाइसंभवे संभवो न दव्वे वि ?। किह वा दवाणंत्ते पज्जवसंखिज्जभागाइं ? ॥ ७३४ ॥ १ घ. छ. 'गुणाका' । २ वृद्धावेव वृद्धिानिहाँनौ न तु विपर्यासः । भागे भागो गुणने गुणश्च द्रव्यादिसंयोगे ॥ ७३३ ॥ ३ घ. छ, 'नात'। ४ गाथा ६१७॥ ५५.छ. 'स्य हा'। ६ष, छ, 'हानावप' । • कथं क्षेत्रासंख्यभागादिसंभवे संभवी न द्रव्येऽपि ? । कथं वा द्रव्यानन्त्ये पर्यवासण्ययेभागादि । ॥ ३४ ॥ ८ घ. छ. 'संखज' । e ॥३६१॥ ale RS JamEducationaintamat For Personal Private Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy