________________
विशेषा०
॥२९४॥
Jain Educationa Internatio
अत्रोत्तरमाह
अणुसमयमणंतरियं गहणं भणियं जओ विमुक्खो वि । जुत्तो निरंतरों च्चिय, भणइ, कह संतरो भणिआ ? ॥ ३६८ ॥
आचार्यः प्राह - हन्त ! तावद् ग्रहणमनुसमयमनन्तरितमव्यवहितं प्राक्तनसूत्रेण भणितं प्रतिपादितमिति भवतोऽपि प्रतीतम् । यत एवम्, अतो विमोक्षोऽपि निसर्गोऽपि निरन्तर एव युक्तः, गृहीतस्याऽवश्यमेवाऽनन्तरसमये निसर्गादिति । मेरकः पुनरपि भणति । किम् १, इत्याह- 'कह संतरो भणिउ त्ति ' इदमुक्तं भवति- अहमपि जानामि यतः सूत्रे ग्रहणं निरन्तरमुक्तं परं यस्तत्रैव निसर्गः सान्तर उक्तः स कथं नीयते ? इति भवानपि निवेदयतु । सत्यम्, किन्तु विषयविभागोऽत्र द्रष्टव्यः || ३६८ ॥
कः पुनरयम् १, इति गुरुराह
गैहणावेक्खाए तओ निरन्तरं जम्मि जाई गहियाई । न वि तम्मि चैव निसिरड़ जह पढमे निसिरणं नत्थि ॥ ३६९ ॥
ahisar निसर्गो ग्रहणापेक्षया भाषाद्रव्योपादानापेक्षया पूर्व पूर्व ग्रहणमपेक्ष्येत्यर्थः, 'सान्तर उक्तः' इति शेषः । नतु समयापेक्षया तस्य नैरन्तर्येणैव प्रवृत्तेः कथं पुनग्रहणापेक्षया सान्तरत्वम् १, इत्याह- 'निरन्तरमित्यादि' यतो यस्मिन् प्रथमादिसमये यानि भाषाद्रव्याणि गृहीतानि, न तानि तस्मिन्नेव ग्रहणसमये नैरन्तर्येण निसृजति, किन्तु ग्रहणसमयादनन्तरसमये निसृजति, यथा प्रथमसमयगृहीतानां न तस्मिन्नेव समये निसर्जनं निसर्गः, किन्तु द्वितीयसमये; एवं द्वितीय समयगृहीतानां तृतीयसमये, तृतीयसमयगृहीतानां चतुर्थसमये निसर्ग इत्यादि सर्वसमयेष्वपि भावनीयम् । तदेवं ग्रहणापेक्षया निसर्गः सान्तर एव, अगृहीतानां निसर्गायोगात् । समयापेक्षया त्वसौ निरन्तर एव द्वितीयादिषु सर्वेष्वपि समयेषु निरन्तरं तद्भावादिति ॥ ३६९ ॥
आह- यद्येवम्, ग्रहणमपि निसर्गापेक्षया सान्तरमेवाऽस्तु । नैवम्, ग्रहणस्य स्वतन्त्रत्वात्, निसर्गस्य तु ग्रहणपरतन्त्रत्वात् । कुतः १, इत्याह
निसिरिज्जइ नागहियं गहणंतरियं ति संतरं तेणं । न निरंतरं ति न समयं न जुगवमिह होंति पज्जाया ॥ ३७० ॥
१ अनुसमयमनन्तरितं ग्रहणं भणितं यतो विमोक्षोऽपि । युक्तो निरन्तर एव, भणति, कथं सान्तरो भणितः १ ॥ ३६८ ॥ २ प. 'विमोक्खो' । ३ ग्रहणापेक्षया सको निरन्तरं यस्मिन् यानि गृहीतानि । नापि तस्मिन्नेव निस्सृजति यथा प्रथमे निसर्जनं नास्ति ॥ ३६९ ॥
४ निस्सृज्यते नाऽगृहीतं ग्रहणान्तरितमिति सान्तरं तेन । न निरन्तरमिति न समकं न युगपदिह भवन्ति पर्यायाः ॥ ३७० ॥ ५ घ. 'हुति' ।
For Personal and Private Use Only
वृहद्वृत्तिः ।
| ॥२१४ ॥
www.jainelibrary.org