________________
बृहदत्तिः ।
विशेषा० ॥२१॥
अथ 'ऐगंतरं च गिण्हई' इत्यादि व्याचिख्यासुराह
जह गामाओ गामो गामंतरमेवमेग एगाओ। एगंतरं ति भण्णइ समयाओग्णंतरो समओ ॥ ३६५ ॥
यथैकस्माद् ग्रामादन्यो ग्रामोऽनन्तरितोऽपि लोकरूड्या ग्रामान्तरमुच्यते, पुरुषाद् वाऽन्यः पुरुषोऽनन्तरोऽपि पुरुषान्तरमभिधीयते; एवमिहापि एकस्मात् समयाद् योऽयमन्यः समयः सोऽयममान्तरोऽपि सन्नेकान्तरमित्यभिधीयते । ततः किमुक्तं भवति ?, इत्याहएकस्मात् समयादनन्तरः समय एकान्तरमिति, एवं चाऽनुसमय एव गृह्णाति, मुश्चति चेति पर्यवसितं भवति ।। ३६५ ।।
अन्ये तु 'एकान्तरम्' इत्येकैकेन समयेनाऽन्तरितं ग्रहणं, निसर्ग चेच्छन्ति, इति दर्शयति
केई एगंतरियं मण्णन्ते गंतरं ति, तेसिं च । विच्छिन्नावलिरूवो होइ धणी, सुयविरोहो य ॥ ३६६ ॥
इह केचिद् व्याख्यातारो मन्यन्ते-ग्रहणं, निसर्जनं चैकैकेन समयेनाऽन्तरितमेकान्तरमुच्यते । एतच्चाऽयुक्तम् , यतस्तेषामेवं व्याख्यातृणामन्तरान्तरविच्छिन्नरत्नावलीरूपो ध्वनिः प्राप्नोति, अन्तरान्तरग्रहणसमयेषु सर्वेष्वप्यश्रवणात् । तथा, श्रुतविरोधश्च, यत उक्तं श्रुते “अणुसमयमविरहिअं निरंतरं गिण्हइ" इति; तथाहि- इदं सूत्रं पतिसमयग्रहणप्रतिपादकत्वात् प्रतिसमयनिसर्गप्रतिपादकमपि द्रष्टव्यम् , गृहीतस्य द्वितीयसमयेऽवश्यं निसर्गादिति ।। ३६६ ॥ क्षेत्र परः प्राह
आह, सुए चिय निसिरइ संतरियं न उ निरंतरंभणियं । एगेण जओ गिण्हइ समयेणेगेण सो मुयइ ॥३६७॥
परः पाह- ननु यथा स्वपक्षसमर्थकं मूत्रं त्वया दर्शितं, तथा श्रुत एवाऽस्मत्पक्षसमर्थकमपि तद् भणितमेव । किं तत् ?, इत्याह'निसिरईत्यादि' इदं प्रज्ञापनोक्तमूत्रं गाथायामुपनिबद्धं, तच्चेदम्- "संतरं निसिरइ, नो निरंतरं निसिरइ एगेणं समयेणं गिण्हइ, एगेणं समयेणं निसिरइ" इत्यादि । तदनेन सूत्रेण निसर्गस्य सान्तरस्योक्तत्वाद् मव्याख्यानमुपपन्नमेव । इति परस्याभिप्रायः॥ ३६७ ॥
१ गाथा ३५५। २ यथा प्रामाद् ग्रामो प्रामान्तरमेवमेक एकस्मात् । एकान्तरमिति भण्यते समयादनन्तरः समयः ॥ ३६५ ॥ ३ केचिदेकान्तरितं मन्यन्त एकान्तरमिति, तेषां च । विच्छिन्नावलिरूपो भवति ध्वनिः, भुतविरोधन ॥ ३६॥ ४ अनुसमयमविरहितं निरन्तरं गृह्वाति । ५ क. ग. 'अप'। ६ आह, श्रुत एव निसृजति सान्तरितं न तु निरन्तर भणितम् । एकेन यतो गृह्वाति समयेनकेन स मुञ्चति ॥ ३६॥ • सान्तरं निसृजति, नो निरन्तरं निसृजति; एकेन समयेन गृह्णाति, एकेन समयेन निस्जति ।
२१३॥