SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहदत्तिः । odeio ॥२१२॥ 57516 कायक्रिया कायव्यापारः, तदतिरिक्तं तदभ्यधिकं प्राणा-पानफलं न किमपि दृश्यते, यथा वाचो मनसश्च स्फुटं तद् दृश्यते । इदमुक्तं भवति- यथा वाचः स्वाध्यायविधान-परप्रत्यायनादिकं, मनसश्च धर्मध्यानादिकं विशिष्ट स्फुटं कायक्रियातिरिक्तं फलमुपलभ्यते, नैवं प्राणा-ऽपानयोः, इति तनुयोगाभ्यन्तरवर्येवाऽसौ प्राणा-ऽपानव्यापारो व्यवाहियते, न पृथक् । न च वक्तव्यम्- 'जीवत्यसौ' इति प्रतीतिजननादिकं प्राणा-ऽपानफलमप्युपलभ्यत एवेति एवंभूतस्य प्रयोजनमात्रस्य सर्वत्र विद्यमानत्वाद् धावन-वल्गनादिव्यापारस्याऽपि पृथग्योगत्वप्रसङ्गात् । तस्माद् विशिष्टव्यवहाराभूतपरप्रत्यायनादिफलत्वाद् वाग्-मनोयोगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ ३६२ ॥ तदेवं तनुयोगो वाग्निसर्गविषये व्याप्रियमाणो वाग्योगः, मनने तु व्याप्रियमाणो मनोयोगः; वाग्विषयो योगो वाग्योगः, मनोविषयो योगो मनोयोग इति कृत्वा । इत्येवं 'तनुयोगविशेषावेव वाग-मनोयोगी' इत्येतद् दर्शितम् । अथवा 'स्वतन्त्रावेवैतौ' इति दर्शयन्नाह अहवा तणुजोगाहिअवइदब्वसमूहजीववावारो । सो वइजोगो भण्णइ वाया निसिरिजए तेणं ॥३६३॥ तह तणुवावाराहिअमणदव्वसमूहजीववावारो। सो मणजोगो भण्णइ मण्णइ नेयं जओ तेणं ॥ ३६४ ॥ अथवा तनुयोगेन कायव्यापारेणाऽऽदृतो गृहीतो योऽसौ वाग्व्यसमूहस्तेन सहकारिकारणभूतेन तनिसर्गार्थ जीवस्य व्यापारः स वाग्योगो भण्यते, वाचा सहकारिकारणभूतया जीवस्य योगो वाग्योग इति कृत्वा । किं पुनस्तेन क्रियते, इत्याह-सैव वाक् तेन जीवव्यापारेण निसृज्यते परप्रत्यायनार्थमुच्यत इति ॥ तथा, तनुव्यापारेणाऽऽदृतो योऽसौ मनोद्रव्यसमूहस्तेन सहकारिकारणभूतेन वस्तुचिन्तनाय योऽसौ जीवस्य व्यापारः स मनोयोगो भण्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति व्युत्पत्तेः । कुतः पुनरयं मनोयोगः १, इत्याह- यतस्तेन ज्ञेयं जिनमूर्त्यादिकं मन्यते चिन्त्यते, अतस्तस्य मनोयोगत्वमिति ।। तदेवमत्र पक्षे वारद्रव्यनिसर्गादिकाले तनोापारः सन्नपि न विवक्षितः, किन्तु वाग्-मनोद्रव्यसचिवस्य जीवस्य, इति खतन्त्रावेव वाग्-मनोयोगी, न तु तनुयोगविशेषभूताविति भावः । आना-पानद्रव्यसाचिव्यात् तन्मोचने जन्तोस्तद्योगोऽपि स्वतन्त्रः पृथक् प्राप्नोति, इति चेत् । न, 'भंण्णइ ववहारसिद्धत्थं' इत्यादिना प्रतिविहितत्वात् ।। इति गाथानवकार्थः ॥ ३६३ ।। ३६४ ॥ अथवा तनुयोगाऽऽरतवारनपसमूहजीवव्यापारः । स वाग्योगो भण्यते वाचा निरुज्यते तेन ॥ ३५॥ . तथा तनुन्यापाराऽऽदतवारजन्यसमूहजीवव्यापारः । स मनोयोगो भष्यते मन्यते शेयं यतस्तेन ॥ ३६४ ॥ २ गाथा 161। । ॥२१२॥ For Pesond er
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy